________________
नि० ४६७ ]
देवसिद्धिः। पुर्व पि ण संदेहो जुत्तो गाहा । पूर्वमपि तदवस्थ(स्थि)तैवासिद्धतेति प्रदर्शयति-यतः ज्योतिष्काः प्रत्यक्षं दृष्टाः दृश्य[]ते च । ते च 'सन्ति, अनुग्रहोपघातकारित्वाद्राजादिवत् । तस्मात् पूर्वमप्ययुक्तः संशयः कर्तुम्, सर्वप्रत्यक्षत्वादेवजात्येकदेशस्येति अस्मदाद्यप्रत्यक्षत्वमपक्षधर्मः । ततश्चानैकान्तिकाभावादयुक्तः संशय इति ॥२३२५॥
अथ चैवं भवतो बुद्धिः स्यात्-नैव ते ज्योतिष्का देवाः प्रत्यक्षमुपलभ्यन्ते, किन्तु विमानान्येतानि, आलयमात्रप्रत्यक्षत्वात्, न तन्निवासिनो देवाः प्रत्यक्षा भवन्तीत्यभिप्रायः । तत इयं गाहा-.
आलयमेत्तं च मती पुरं व तव्यासिणो तध वि सिद्धा । जे ते देव त्ति मता ण य णिलया णिच्चपरिमुण्णा ॥२३२६॥
आलयमेत्तं च मती इत्यादि । आलयमात्रप्रत्यक्षसिद्धेरपि तन्निवासिप्रत्यक्षत्वं सिद्धमेव । तद्यथा-य एते प्रत्यक्षा आलयाः-यान्येतानि विमानानीत्यर्थः, ते कदाचित् कस्यचित् प्रत्यक्षाधिष्टातृकाः, विद्यमानाधिष्ठातृकाः, सस्वामिका वा इत्यादयः साध्यधर्माः, आलयत्वात्, पाइलिपुत्रादिपुरवत् । आलय इति सम्बन्धिशब्दत्वाद्वा, शकुन्ताद्यालयवत् । एवमालयमात्रत्वात् साकाङ्क्षायां तदालयवासिनः 'तद्वासिनः' तथापि सिद्धाः । आलयमात्रप्रतिपत्त्यैव 'ये' च ते तद्वासिनस्तदधिष्ठायिनः सामान्य मात्रसिद्धत्वात् 'ते' एवं 'देवाः' इति 'मताः' अभ्युपगताः । शून्यपुरेणानै कान्तिकत्वमाशङ्कमानः स्वयमेवाचायों विशेषणमुपादत्तेऽर्थतः, यस्मादेवमाह-"ण च णिलया णिच्चपरिसुण्णा" नित्यशून्या न भवन्ति निलया इत्यर्थः । कदाचिद् कस्यचिद् प्रत्यक्षाधिष्ठातृका इति (विशेषणान्नानैकान्तिकः ॥२३२६॥
अथ सन्दिग्धासिद्धत्वं हेतोश्चोघेतको जाणति - किमेतं ति भोज्न णिसं[१५३-द्वि]सयं विमाणाई । रतणमय-णभोगमणादिह जध विज्जाधरादीणं ॥२३२७॥
को जाणति व इत्यादि । अथैवं यात्-को जानाति किमेतदिति भवेत् । आलय इति पुंल्लिङ्गे प्रक्रान्ते सन्दिग्धासिद्धचोदनाख्यापनार्थमव्यक्ते गुणसन्देहे नपुंसकलिङ्गं प्रयुज्यते । तस्मात् किमेतदित्युक्तम् । किमेते आलयाः चन्द्रसूर्यबिम्बादयः, आहोस्वित् सूर्योऽग्निमयो गोलकः, चन्द्रोऽम्बुमयः, स्वभावतः स्वच्छ इति गोलकावेतौ, आहो
१ च सत्त्वानु-इति प्रतौ । २ व जे। ३ य त । ४ होज को हे। ५ जाणदि-इति प्रतौ । ६ गोलब्धश्चन्द्रो-इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org