SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मतिश्रुतयो नात्यम् । जे' सुत० गाधा । बुद्ध्या दृष्टाः वुद्भिदृष्टाः बुद्धिरिति श्रुतबुद्धिरधिक्रियते, श्रुतविज्ञानमित्यर्थः । तया दृष्टा येऽर्थाः प्रयालोचिताः । तत्र यांस्तन्मतिसहित एव भाषते तच्छ्रतं भवति मतिसहितमिति, श्रुतविज्ञानसहितमुभयश्रुतमित्यर्थः । यान् पुनस्तद्विज्ञानालोचितानप्यनुपयुक्तो भापते तत् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यान्नैव भाषते तद्भावश्रुतमित्येतद् द्वयमप्यर्थागम्यते ॥१२८।। इतरत्थ वि भावमुते होज्ज तैयं तस्समं जति भणेज्जा । ण य तरति तत्तियं सो जमणेगगुणं तयं तत्तो ॥१२९॥ इतरत्थ वि त्ति गाहा । यद् भाषते तदुभयश्रुतं . द्रव्यश्रुतं वेत्युक्ते 'इतरत्थ' इति भावश्रुतं गम्यते । तत्रापि हि द्रव्यश्रुतमुभयश्रुतं वा भवेत् । यदि तदुपलब्धिसमं भाषेत् , नं तु तच्छक्नोति, यतस्तु बहू पलभतेऽ-पं भाषते ।।१२९।। सह उवलद्धीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा ण सव्वधा तरति वोत्तं जे ॥१३०॥ सह गाथा । यदुपलब्ध्या सह प्राकृतशैल्या तदुपलब्धितुल्यं चोपलब्धिसमं उपलब्धिसमकालं चोपलब्धिसमं सर्वथा यावदुपलभते न तावद् भापत इति ॥१३०॥ *केयी बुद्धिदिठे मतिसहिते भासतो सुतं तत्थ । किं सद्दो मति' उभयं भावसुतं सव्वधाऽजुत्तं ॥१३१॥ सदो ता दचसुतं मतिराभिणियोधियं ॥ वा उभयं । जुत्तं उभयाभावे भावसुतं कत्थ तं किं वा ।।१३२।। केयी बुद्धि० गाहा। सद्दो गाहा । इह केचिन्मन्यन्ते–'बुद्रिद्दिढे 'त्ति वुद्धिरित्याभिनिवोधिकं तदालोचितानन् भापमाणस्योपयुक्तस्य श्रुतमिति । तत्र च न विमः किं श्रुतमिति ? किं शब्दो मति:भयं चे(वे)ति ? सर्वथा च भावश्रुतमयुक्तम् । कथम् ? शब्दस्तावद् द्रव्यश्रुतम् । या मतिस्तदाभिनिबोधिकम् । उभयमप्युभयस्वभाव वादेवायुक्तम् । तदुभयाभावाच्च न ज्ञायते भावश्रुतं कुत्र किं वेति ॥१३१॥१३२।। भासापरिणतिकाले मतीयं किमधियमधण्णधत्तं वा । भासासंकप्पविसेसमेत्ततो वा सुतमयुत्तं ॥१३३।। भासाप० गाहा । अविशिष्टस्य वा मतिज्ञानस्य भाषापरिणतिमात्रात् किमधिका(क)मन्यथात्वं वा भवेद, यतः 'श्रुतव्यपदेशः स्यात् ! अ[-]तर्विज्ञानस्य वाऽविशिष्टस्य बाह्य क्रिया दादत्यन्तजातिभेदाभ्युपगमे धावन ठनादिक्रियाभेदा[दानन्त्यम् ॥१३३।। 1 जो सं । २ तय है । “उज जे । ४ अत्र जेप्रतौ । प्रथमं 'केयि' इति लिखित्वा पथात् 'केयी' इति संशोधितम् । केई है को। ५ मइरुभयं को है।६ मईए को हे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy