SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मतिश्रुतयोर्नानात्वम् । २५ एगंतेण गाहा । आह— उच्छास्त्रमुच्यते 'परोक्षमिन्द्रियनिमित्तम्' इति । ननु सूत्रोपदिष्टं "पच्चखं दुविधं पण्णत्तं तं जहा - इंदियपचक्खं च णोइंदियपञ्चकख च " [नन्दी १०] । उच्यते-- सत्यमिदम् अत्र तु यदिन्द्रिय मनोभिर्बाह्य लिङ्गप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मक (न) श्च परोक्षम्, अनुमानत्वात् धूमादग्निज्ञानवत् । यच्चावध्यादि तदेकान्तेनैव प्रत्यक्षमात्मनः, अलिङ्गत्वात् इन्द्रियाणामलिङ्गज्ञानवत् । यत् पुनः साक्षादिन्द्रिय-मनोनिमित्तं तत् तेषामेव प्रत्यक्षम् अलिङ्गत्वात्, आत्मनोऽवध्यादिवत्, न त्वात्मनः आत्मनस्तु तत् परोक्षमेवं, 'परनिमित्तत्वात्, अनुमानवत्' इत्युक्तम् । तेषामपि च तत् संत्र्यवहारत एव तत्प्रत्यक्षम्, न परमार्थतः । कस्मात् ? ' अचेतनत्वात्, घटवत्' इत्युक्तम् । आह-न सूत्रे विशेषितम् 'इन्द्रियनिमित्तं संव्यवहारतः प्रत्यक्षम्, न परमार्थतः' इति । उच्यते ननु सूत्रोपदिष्टं "परोक्खं दुविहं तं जहा -- आभिणिबोहियाणं सुयणाणं च " [ नन्दी ४३] इति । न च मति श्रुताभ्यामिन्द्रियनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत् । आह नन्वेतदेवेन्द्रियनिमित्तं प्रत्यक्षमञ्जसा भविष्यति यद लैङ्गिकम्, मति श्रुते तु यलैङ्गिकमिन्द्रियनिमित्तमिति । उच्यते—न, लैङ्गिकस्य ऐन्द्रियनिमित्ताभावाद्, इन्द्रियस्य प्रत्युत्पन्नमात्रविषयत्वात् न मति श्रुतयोश्च, इन्द्रियानिन्द्रियनिमित्तत्वात्; इन्द्रियप्रत्यक्षस्य च मति - श्रुताभ्यामन्यत्वे षष्ठज्ञानप्रसङ्गात् । आह -- इन्द्रियनिमित्तं परोक्षम् इति श्रदध्महे, मनोनिमित्तं तु कथम् ? उच्यते - ननूक्तं ‘परनिमित्तत्वात्, अनुमानवत्' इति । आह-न सूत्रे विशेष्याभिहितं 'परोक्षं मनोनिमित्तम्' इति । उच्यते-- तत् प्रत्यक्षमपि नैवोक्तम् । आह--ननूक्तं “इंदियपञ्चक्खं च नोईदियपच्चकखं च" [नन्दी १०] इति । नोइन्द्रियं च मन इति । उच्यतेन, सर्व निषेध - मात्रवचनत्वाद् नोशब्दस्य । कथम् अवध्यादिविशेषणात्, अवध्यादित्रयस्य च मनोनिमित्त्वा (त्त) प्रसङ्गात्, ततश्च मनः पर्याप्तिशून्यस्यावधिज्ञानोपयोगाभावः स्यात् ; अनिष्टं चैतत्, यस्मादुक्तं "चुतेमि त्ति जाणति " [कल्प ० ३ ] सिद्धस्य चाज्ञा नि [त्व] प्रसङ्गः, अमनस्क - त्वात् । तस्माद्यथेन्द्रियज्ञान ( नं :) प्रत्यक्षमप्युक्तं मति श्रुतयोः परोक्षवचनात् परोक्षमिति गम्यते तथा मति श्रुतपरोक्षवचनादेव मनोनिमित्तमनुक्तमपि गम्यते तदन्तर्भाव (वात्) परोक्षमिति, अष्टाविंशतिभेदत्वाच्च मतेरिति, अन्यथाऽस्यापि षष्टज्ञानप्रसङ्गः स्यादिति ||१५|| 9 , Jain Education International 1. " "सामित्ताइंत्रिसेसाभावातो मतिसुतेगता णाम । लक्खणभेदिकतण्णाणत्तं तदविसेसे वि ॥९६॥ १ 'बुधेमित्ति जाणति' इति प्रत २ चोत० सामि जे । ३ 'ताति' जे ४ चाओ महसुए गया को है । ५ आ० लक्ख जे ६ भेतातिक जे। कयं माणसं को हे । ७ तयवि को है । ४ For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy