SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये भणितं गाहा । उक्तं चेदमादौ-सर्वमेव शास्त्रं मङ्गलमिदम्, किमनेन मध्यदेशादिमङ्गलविशेषणेन ? । अथ मतिः-शास्त्रमङ्गलल्वेऽपि शिष्यमङ्गलत्रयमतिपरिग्रहाथोऽयं यत्न इति । तच्च न, यतः शिष्योऽपि मङ्गलत्रयमतेः परिग्रहं प्रागेव कारित इति ॥१०१६॥ ओवासयस्स तं कतमिदं तुं णावासमेतंय किंतु । सव्वाणुओगणिज्जुत्तिसत्यपारं[६७-द्वि०]भ एवायं ॥१०१७॥ आवास० गाहा । उच्यते-यदादौ मङ्गलम् , सर्व शास्त्रं मङ्गलम्, सर्वशास्त्रमङ्गलत्रयमतिपरिग्रहश्च सर्वं तदावश्यकस्योक्तम् , इदं तु नाऽऽवश्यकमात्रम्, किं तर्हि ? सर्वानुयोगनियुक्तिशास्त्रमेवेदमारभ्यत इत्यतस्तदविघ्नसम्पादनाय मङ्गलग्रहणमिति ॥१०१७॥ दसयालियाइणिज्जुत्तिगहणतो भणितमुवरि वा जं च। सेसेसु वि अज्झयणेमु होति एसेव णिज्जुत्ती ॥१०१८॥ दसया० गाहा । आह-कुतः पुनरिदं गम्यते 'सर्वानुयोगनियुक्तिशास्त्रारम्भ एवायम्' ! इति । उच्यते-दशवकालिकादिग्रहणाद् [यद्] वक्ष्यति -“आवस्सयस्ट दसकालियस्स तहुत्तरज्झमायारे ।" [१०७१] इत्यादि; अथ चोपरि यद् वक्ष्यति-"सेजेसु वि अज्झयणेसु होइ एसेव णिजुत्ती" [३१५७] चतुर्विंशतिस्तवादिषु सर्वाध्ययनेषु चेति, भतोऽवगम्यते सर्वानुयोगनियुक्तिशास्त्रारम्भ एवे(वा)यमिति ॥१०१८॥ • सामाइयवक्खाणे दसालियादीण कोऽधिकारोऽयं । जं पायमुवग्यातो तेसिं सामण्ण एवायं ॥१०१९।। । इध तेर्सि तम्मि गते वीसुं वीमुं विसेसमेत्तायं । घेच्छिति मुहं लहुँ चिय तग्गहणं लाघवत्थमतो ॥१०२०॥ सामाइय० गाहा । इध गाहा । आह-सामायिकव्याख्यानाधिकारे को हि दशवकालिकादीनामवसरः : उच्यते-उपोद्घातसामान्यादवसरः, यतः प्रायेणाऽयमुपोद्घातस्तेषामपि सामान्य एव, इह तंपामुपोद्घाते नि(वि)हिते सामान्यतः पृथक् पृथग्विशेषमात्रकमयत्नेन ग्रहीष्यतीति लाघवार्थ दशवैकालिकादिग्रहणमिति ।।१०१९-२०॥ तम्हा जेण महत्थं सत्यं सव्वाणुयोगविसयमिणं । सत्यंतरमेवऽधवा तेण पुणो मंगलग्गहणं ॥१०२१॥ १ आवस्सय को हे त। २ 'मिणं तु को। ३ समा का । ४ सिमितोऽयं हे । “समित्ताय को। ५ घेच्छ त। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy