SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ १६६-१४७] द्वादश उत्साहः ततः पुप्पोदकैर्गन्धोदकैः शुद्धोदकैस्तथा । अभ्यषिञ्चन्त तान् वृन्दारका जिनमिवादरात् ॥१३६ संमृप्टा गन्धकाषाय्या लिप्ता गोशीर्षचन्दनैः । संवस्त्रिता देवदूष्यैर्भुषिता माल्यभूषणैः ॥१३७ पार्श्वयोश्चामराभ्यां ते भान्तश्छत्रेण मूर्धनि । मूर्तज्ञानत्र येणेव व्यवसायसभामगुः ॥१३८॥ युग्मम् तत्रावाच्यत तैः सुपुस्तकवरं सिंहासनोत्सङ्गगं यस्मिन् राजत एव पत्रनिचयो रैष्टी च वर्णावली । जात्यस्वर्णमयोऽन्तरा दवरको नानामणीवस्तिका भास्वद्रिष्टमणीमये च परितो भातस्तरां पृष्ठके ॥१३९ यस्योद्दीप्रविडूरभूमणिमयं स्फारं मषीभाजनं सान्द्रो रिष्टमणीमयो मषिरसो रेष्टं पिधानं घनम् । हैमी शृङ्खलिका द्रढीयसितरा वाजी महालेखिनी __जन्मान्तावधि देवकृत्यमखिलं लेख्यं तथा धार्मिकम् ॥१४०॥ युग्मम् ततः सर्वश्रिया सर्वद्युत्या सर्वबलेन च । पुरो मङ्गलतूर्येण पूर्यमाणे ककुम्मुखे ॥१४१ स्फुरत्परिमलोदामपुष्मदामादि भूरिशः । पूजावस्तु गृहीत्वा ते सिद्धायतनमीयिरे ॥१४२॥ युग्मम् तत्र चाष्टोत्तरशतं प्रतिमानां प्रमृज्यते । स्नापयन्ति स्म तैर्दिव्योदकैर्भक्तिरसैरिव ॥१४३ दिव्याङ्गरागैर्भङ्गीभिः स्वप्रतापैर्नु पिञ्जरैः । विलिप्यानचुः कुसुमैर्यशःसुरभिनिर्मलैः ॥१४४ कृत्वा प्रसूनप्रकरं तत्फलैरिव तन्दुलैः । ते मुदा लिलिखुलेखाः पुरस्तादष्टमङ्गलीम् ॥१४५ प्रतिमास्त्रिः प्रणम्याथ न्यञ्च्येषज्जानु वामकम् । दक्षिणं भूतले न्यस्य विरचय्यालिकेऽञ्जलिम् ॥१४६ षडजमध्यमगान्धारग्रामोद्गारमनोरमम् । गन्धर्ववर्गेणारब्धे चारुसङ्गीतकामृते ॥१४७ . १४०.३. वाजी. १४६.२ न्यंचे'. Lila.-37 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy