SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ४४१-४५३ ] Jain Education International किञ्च - बालाङ्गनादिलोकोऽत्र सर्वोऽप्येकमुखः प्रभो । एतं चैकमुखं जेतुं शक्रोऽपि हि न शक्नुयात् ॥ ४४१ तत् प्रसीद प्रभो सम्मानय सामन्तमन्त्रिणः । हस्त्यश्वकोशाद्यध्यक्षान् स्वसात् कुरु यथा तथा ॥ ४४२ तान् प्रत्यूचे ततो राजा गुरुहुङ्कारपूर्वकम् । न वर्तध्वे ममाज्ञायां चेद् यूयं यात तद्द्भुतम् ॥ ४४३ तेषां सहाया भवत तान् युष्मांश्चकहेलया । पातालगानप्यवश्यं हन्म्येवाहीन् सुपर्णवत् ॥ ४४४ पुनः प्रवीरैस्तैरूचे भग्नभाग्योऽसि भूधव । तथाऽपि प्रत्यावृत्त्या तेऽस्माकं चित्रीयते मनः ॥ ४४५ यद्वा फलर्द्धयः काश्चित् पापस्पृक्पुण्यसम्भवाः । वंशस्येव प्रपाताय जायन्ते पातकोदये ॥४४६ पुण्यशून्यस्य विद्याऽपि स्फुरिष्यति न ते ध्रुवम् । स्नेहहीनस्य वीरस्य कियत् तेजो विजृम्भते ॥ ४४७ दुर्वचांसि न हीहंशि संस्युः पुण्यवतः क्वचित् । कर्पूरपात्रादुगारो नामेध्यस्य कदाचन ॥ ४४८ यदाऽस्माभिरपि त्यक्तस्तदा त्यक्तोऽसुभिर्ध्रुवम् । जलैस्त्यक्ता जलचराः प्राणन्ति प्राणिनः कियत् ॥४४९ राजसिंहासनमिदं मन्दबुद्धे त्यज द्रुतम् । सूरस्यासनमध्यास्ते न सुतोऽपि शनैश्वरः ॥४५० यच्च विद्याबलं बाहुबलं यच्च बलान्तरम् । तदेव संस्मरेदानीं नेदीयांस्तव दण्डभृत् ॥४५१ देव्याऽथ पुनरप्यूचे पृण देव परिच्छदम् । अकाण्डे मैव सर्वेषामपकारप भव ॥ ४५२ ४५०.३. शूर.. Lila.-35 एकादश उत्साहः किञ्च परमार्थेन न स्वामिन् कोऽपि कस्यापि सेवकः । प्रज्वलन्तीं दिशं सर्वः समाश्रयति नेतराम् ॥४५३ ४५१.४. नेदेयां.. - For Private & Personal Use Only २७३ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy