SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३८ लीलावतीसारे विभङ्गज्ञानचारेण गत्वा प्राकस्थानके क्षणात् । आगत्य कथयाञ्चक्रे तस्य प्राच्यभवस्थितिः ॥ ११७ सोऽथ करात्मनि खौ तदाऽकारणवैरिणि । तथोपद्रवकारे च सैंहिकेय इवापत् ॥ ११८ पोतस्थं स्वं वपुर्वीक्ष्य सशम्यो ( ? ) त्थायमागमत् । पोतस्योपरि चारेभे विकर्तुं घनमण्डलम् ॥ ११९ ततो निर्यामकः प्रोचे भोः भोः सांयात्रिका द्रुतम् । संवर्त्यतां सितपट: पोतो नामर्यतामयम् ॥ १२० विधीयन्तां शान्तिका [ नि] स्मर्यन्तां कुलदेवताः । यदुत्पातप्रदेशेऽयं सूर्पमानोऽब्द उत्थितः ॥१२१ तेऽथ पोतं दृढीकृत्य स्नाताः सार्द्रपटावृताः । कुलदेवीस्मृतस्तस्थुर्धूपोद्ग्राहणपाणयः ॥१२२ तावत् तेनाब्दखण्डेन व्यानशे व्योममण्डलम् । पापीयसो रवेस्तस्य पाप्मनेव वपुष्मता ॥ १२३ जगर्जुरूजितं मेघास्तदकीयनका इव | विसुविद्युतो घोराकारास्तच्चित्तवृत्तिवत् ॥ १२४ निपेतुः करकाश्मानस्तमिव प्रजिघांसवः । धाराश्च मुसलाकाराः पेतुस्तमिव खण्डितुम् ॥ १२५ उच्चिक्षेप निचिक्षेप भ्रमयामास चाभितः । पात्रवद् यानपात्रं स नर्तयामास किं बहु ॥१२६ उत्पाततस्ततो भीतभीताः सांयात्रिकादयः । प्राञ्जलि प्राञ्जलहृदः प्रोच्चकः प्रोचुरुन्मुखाः ॥१२७ यः कोऽपि जलदेवो वा यक्षो वा राक्षसोऽथवा । विरोद्धोऽस्माभिरज्ञानैः स प्रसद्य ब्रवीतु नः ॥१२८ क्षमयामो मानयामों येन तं लुठनेः पदोः । प्रणामावधिरेव स्यात् कोपाटोपो महात्मनाम् ॥१२९ स्वापराधं न च वयं जानीमः शून्यमानसाः । तदादिश प्रभोऽध्यक्षं यदादिष्टकृतो वयम् ॥१३० ११८.२. तवा. Jain Education International For Private & Personal Use Only [ ११७-१३० www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy