SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [६५-७८ लीलावतीसारे ततः श्रीनयसारोर्वीमण्डलाखण्डलोऽवदत् । हहो महाजनाश्रावि धनव्यवहृतिस्थितिः ॥६५ देहडोऽथ व्यजिज्ञपयद्योजिताञ्जलिकुड्मलः । किमपूर्वमिदं देव शैलीय वणिजां यतः ॥६६ यथागृहीतं ददतो वर्तन्ते वणिजः कथम् । कथं वा राजकुटुम्बधर्मकार्याणि कुर्वते ॥६७ तुलया कलया किञ्चिन् मानद्दानाच्च किञ्चन ।। प्रमुष्णन्तोऽत एवोक्ता वणिजोऽध्यक्षतस्कराः ॥६८ यतोऽतिलोभनाः कूटतुलाद्यपि वितन्वते । अतस्तत् सर्वथा धीरै निषिद्धं जिनशासने ॥६९ तद् देव वणिजामेषा वणिज्यावृत्तिरीदृशा । नेद नवतरं किञ्चिदवधारयतु . प्रभुः ॥७० राजाऽऽख्यत् श्रयतां तावदेकमाख्यानकं जनाः । महाजनोऽवदद् देव प्रसादः स्तात्तरामयम् ॥७१ श्रीवसन्तपुरारामेऽभूद् वसन्त इव श्रिया ।। जितशत्रमहीपालो , महीपालनलालसः ॥७२ वसन्तश्रीस्तस्य देवी सौभाग्यैकनिकेतनम् । तयोर्दुर्लभिका पुत्री कल्पवल्लीव दुर्लभा ॥७३ तस्याश्च धायिनी नाम्नी तन्तुवायसुता सखी । तयोश्चाशैशवाज्जज्ञे प्रेमहेममकृत्रिमम् ॥७४ सख्यन्तः पुररुद्धाऽस्मि तत् ते रुच्योऽस्तु मे प्रियः । यन्नो भारुण्डवद्योगः स्यात् तामित्याह राट्सुता ॥७५ कौविन्दी साऽथ वण्ठेन प्रसक्ताऽभाणि तेन च । नैव ज्ञायावहे यावत् तावद्यावः पुरान्तरम् ॥७६ तयोक्तं मेऽस्ति राट्पुत्री सख्येव दृढसश्रवा । वण्ठो जगाद साऽप्येतु राट्पुत्रीमथ साऽऽह्वयत् ॥७७ त्रयोऽपि तेऽथ संभूय प्रदोषे निर्ययुहात् । अत्रान्तरे मठे कश्चिदगायद् गीतिकामिमाम् ॥७८ ७२.३. जिशशत्रु'. ७६.१. कोविंदी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy