SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका । समाप्तोऽयं पृथिवीकायः । अथ अपकायमाह-- कबन्धमपि वारिणि । "के शब्दे" कायति कायते वा कम् । "क्वचित्" [५।१।१७१] इति डः । बध्नाति वायुं बध्यतेऽनेन वा बन्धम् । जलवाची कशब्दोऽभिधानचिन्तामणिसूत्रे उक्त एवाऽस्ति, इह तु पुनः कशब्दकथनं कबन्धभेददर्शनार्थमिति । वार्यते वारि । क्लीबलिङ्गः । तत्र । “स्वरेभ्य इ" [उ. ६०६] इति इः । शरम् , क्षौद्रम् , व्योम, कुशम्', वरुणः, बाहुलकात् पुंस्त्वमस्य । यदाह गौडः "पानीये यादसां पत्यो वरुणो वरुणमे"। कटीरम्, तीवरम्, मोरम्, द्रमलम्, जलापम् , खजपम्, नेपम् , उलपम्, कृषीटम् मध्यमूर्धन्योऽयम् । कृपीटम्, चन्दिरम् , सदनिः, जीवथः, जीवातुः च । धूमिका धूममहिषी धूमरी मिहिका समाः ॥१५॥ धूमो विद्यतेऽस्यां धूमिका । "अतोऽनेकस्वरात्" [७।२।६] इति इकः । धूमप्रतिकृतिरिति वा धूमिका । "तस्य तुल्ये कः संज्ञाप्रतिकृत्योः" [७।१।१०८] इति कः । धूयतेऽनया वा । "कुशिक." [उ. ४५] इति इके निपात्यते । महिषीव महिषी ताद्रूप्यात्, धूमोपलक्षिता महिषी धूममहिषी। धूमो विद्यतेऽस्यां धूमरी। "मध्वादिभ्यो रः" [७।२।२६] इति रः। मेहति मिहिका। "कुशिकलविक." [उ. ४५] इति इके निपात्यते ॥९५॥ अकूवारोऽपि जलधौ मकरालय इत्यपि । जलम् धीयतेऽस्मिन् जलधिः समुद्रः । तत्र । न कुम्-पृथ्वीम् पिपर्ति अकूपारः । बाहुलकाद् दीघेः । "जपादीनां पो वः" [२।३।१०५]. इति वत्वे अवारः । मकराणाम्-मत्स्यानाम् आलयो मकरालयः । कुवलयः, मीकरः, मीरः, विकुसः, नभसः, पथित्वम् , प्यात्वम्, स्तिभिः, तृपत् , पुरुः, धृत्वा, धेनः दल्मिः च । निम्नगायां हादिनी स्यात् निम्नम् गच्छति निम्नगा, नदी, तस्याम् । हादोऽस्त्यस्यां हादिनी । वरी, बेनिः, जित्वरी, नुविः, भुविः च, एतौ सकारान्तौ स्त्रीलिङ्गो । 1. जे. प्रतौ 'कुशम्' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy