SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता [६।३।१७४] इति रणू प्रत्ययः । अन्तस्य तृतीयबाधनार्थ धादेशश्च । आग्नीधा एव आग्नीधी प्रज्ञादित्वात् स्वार्थे अण् इति अण् । “अणत्रेय ०" [२।४।२० ] इति ङीः । अग्नीन्धननाम्नी । ४४. ܕ वृषी वृसी ॥ ७१ ॥ ब्रुवन्तः सीदन्ति अस्यां वृषी, तपस्विनामासनविशेषः । पृषोदरादित्वात् साधुः । गौरादित्वाद् ङोः । ब्रुवन्तः सीदन्ति अस्यां वृसी । पृषोदरादित्वात् गौरादिस्वाद ङीः, बाहुलकाद् षत्वाभावः । तालव्योपान्त्योप्ययम् इति एके ॥ ७१ ॥ शसने शमनं च “शस् हिंसायाम्" शस्यते शसनम् । “अनट्” [५|३|१२४] इति अनट् । शम्यते शमनम् । अनट् । यज्ञविषयिहिंसानाम | अथ दधिषायं पृषातके । दधिभिः स्यति दधिषाय्यम् । दीव्यतेः दीधीषू इत्यादेशे दीघीषाय्यम् अपि । उभावपि "दधिषाय्य दीधीषाय्यो" [उ. ३७४ ] इति आय्य प्रत्ययान्तौ निपात्येते । पृषद्भिः दधिबिन्दुभिः अङ्कयते पृषातकः । दधिसंयुक्तमाज्यम्, तत्र । पृषोदरादित्वात् साधुः । अग्निहोत्रण्यग्न्याहितोऽपि अग्निहोत्रम् अस्यास्ति अग्निहोत्री, तत्र । अग्नौ आहितः अग्न्याहितः । उपवासे समाविमौ ॥ ७२ ॥ उपवस्त्रमपवस्तम् उपवसनम् उपवासः, तत्र । उपवसति अत्र उपवस्त्रम् । “हुयामा ०" [उ. ४५१] इति त्रः । क्लीबे माला | पुंस्यपि अरुण: । " वसूच् स्तम्भे” उपवस्यते अनेन उपवस्तः, 'क्त' प्रत्ययः । तस्येदम् औपवस्तम् । “ तस्येदम् " [६।३।१६०] इति अण् । उपवसथोऽपि । इमौ उपवस्त्रौपवस्तशब्दौ समौ - तुल्यौ । उपवीते प्रचक्षते । Jain Education International ब्रह्मसूत्रं पवित्रं च, उपवीयते प्रात्रियते स्म उपवीतम्, पुंक्लीबलिङ्गः, तत्र । ब्रह्मणः सूत्रं ब्रह्मसूत्रम् । पूयते पुनाति वा पवित्रम् "बन्धिवहि ० " [उ. ४५९] इत्यादिना इत्रः प्रत्ययः । वाल्मीकौ द्वाविमावपि ॥ ७३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy