SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका अधिकम् अङ्गात् अधियाङ्गम् । निरुक्तिवशात् कस्य यकारादेशः । यदाह मुनि:- “अधियाङ्गं सारसनम्" । [ ] इति । "धित् धरणे" धियति देहम् धियाङ्गम् । “पतितमितृपकृशल्वादेरङ्गः" [ उ. ९८ ] इति अङ्गः, बाहुलकाद् दीर्घत्वम् च । यदाह हुग्रः (? दुर्गः) | "तस्य सारसनं ज्ञेयं धियाङ्गं च निबन्धनम्" । [ ]इति । अधिकम् अङ्गात् अधिकाङ्गम् । यत् सकञ्चुकैर्हदि धार्यते तन्नामानि । वदर्थः पूर्ववद् अवसेयः ॥६६॥ शिरस्कं खोलमप्याहुः शिरसो मस्तकस्य प्रतिकृतिः शिरस्कम् । "खोल खोटने" खोल्यते बाणादि प्रतिहन्यतेऽनेन खोलम् । अल् । ____ स्यान्निषङ्ग्यपि तूणिनि । निषङ्गोऽस्त्यस्य निषङ्गी । तूणम् अस्त्यस्य तूणी, धनुर्धरः तत्र । चापे धन्धनुशरासनान्यपि विदुर्बुधाः ॥ ६७ ॥ चपस्य-वेणोर्विकारः चापः, तत्र । “विकारे" [६।२।३० ] इति अण् । धन्यते-अर्थ्यते धनति शब्दायते ज्याघातेन वा धनः । “कृषिचमितनिधनि०" [उ. ८२९] इति ऊः प्रत्ययः । स्त्रीलिङ्गः । “भृमृतत्सरितनिधनि" [उ. ७२६ ] इति 'उः' प्रत्यये धनुः उकारान्तः । पुंक्लीबलिङ्गः । शरस्यासनम् शरासनम् । विदुर्जानन्ति बुधाः-पण्डिताः । कालकम् , कालपृष्ठम् , अवसम् , कमरम् च ॥ ६७॥ फरकस्फरको खेटे फलति विशीर्यते फलम् । स्वार्थिके के फलकम् । रलयोरैक्ये फरकम् । पुंक्लीबः । स्फरति चलति स्फरकः । कुटादिः अयमित्येके । तत्पाठबलाच्च णके वृद्धयभावः । खेटयति उत्त्रासयति खेटम् । पुंक्लीबः । तत्र विविक्तवसुनन्दको अपि । क्षुरिका छुरिका छुरी। क्षुरति-विखनति क्षुरिका । णके आप्....छुरति-छिनत्ति छुरिका । “अच्" [५।१।४९] इति अचि, छुरी । ईल्यां तरवालिकाऽपि १. प्रा. प्रतौ 'तत्र' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy