SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २८ श्रीश्रीवल्लभगणिविनिर्मिता ऊः प्रत्ययो धश्चान्तादेशो भवति । ततो वधूरेक वधूटी । लक्ष्यानुरोधात् टः । यथा स्वर्गग्रामटी कर्कटी इति पृषोदरादित्वाद् वा अटः प्रत्ययः । तस्याम् । वधूटी इत्यपि ब्याडिः । पत्न्यां करात्ती गेहिनी सहधम्मिणी ॥४०॥ सधर्मचारिणी चापि पत्नीति पतिशब्दाद् "ऊढायाम्" [२।४।५१] इति ङीः, नकारश्चान्तादेशः। तस्याम् । करो हस्त आत्तोऽस्याः, करे आत्ता वा करात्ती । एवं करगृहोती, पाणिगृहीती, पाण्यात्ती' | "पाणिगृहीतीति" [२।४।५२] इत्यनेन ड्यन्तो निपात्यते । गेहम्-गृहम् अस्ल्यस्या गेहिनी । सह धर्मोऽस्त्यस्याः सहधर्मिणी । सह धर्म चरति इत्येवंशीला सधर्मचारिणी, यज्ञादौ सहाधिकारित्वात् । । स्नुषायां तु वधूटयपि । स्नौति अपत्यवात्सल्यात् स्नुषा । "स्नुपसूम्बर्कल्लभ्यः कित्" [उ.५४२] इति कित् कः । तस्याम् । बध्नाति वधूटी । “बन्धे” [उ. १५७] इति कित् ऊटः । "वयस्यनन्स्ये" [२।४।२१] इति ङीः । प्रेमवत्यपि कान्तायाम् , प्रेम विद्यते अस्याः प्रेमवती । “तदस्याऽस्त्यस्मिन्निति. मतुः" [७।२।१] इति मतुः । काम्यते कान्ता वल्लभा प्रिया तस्याम् । पाणिग्राहो विवोढरि ॥४१॥ परिणेतोपयन्ता च पाणी गृहणातीति पाणिग्राहः । "कर्मणोऽण" [५।११७२] इति अण् । विवहति परिणयति विवोढा भर्ता, तत्र । परिणयति परिणेता । तृन् । उपयच्छते उपयन्ता । अनुस्वारेत्वान्नेट् । यौतके दाय इत्यपि । युतयोः-वधूवरयोरिदं यौतकम् , तत्र । दीयते दायः । यत् शाश्वत:-"यौतकादिधनं दायर्यो दायो दानमुदाहृतम्" । [ ] इति । यौतुकम् अपि । दीधीर्दिधिः “जिघृषाद प्रागल्भ्ये" धृष्णोति दीधीः दिधिषूश्च । “धृषेर्दिधिषु दीधीषौ च" [उ. ८४२] इति 'ऊ' प्रत्ययः, धातोश्च दिधिष् दीधीष् इत्यादेशौ भवतः । यद् १. जे. पण्यात्ती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy