SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तृतीयो मर्त्यकाण्डः अथ तृतीयमर्त्यकाण्डस्य शिलोञ्छो वित्रियतेस्तनन्धये स्तनपश्च क्षीरपश्चाऽभिधीयते । "धे पाने" स्तनौ धयति स्तनन्धयो बालस्तत्र । "शुनीस्तनमुञ्जकूलाऽऽस्यपुष्पात् धेः" [५।१।११९] इति खश् । स्तनो पिबति स्तनपः । " स्थापास्नात्रः कः" [५ । १ । १४२] इति कः । क्षीरम्-दुग्धम् पिबति क्षीरपः । “स्थापा." [५।१।१४२ ] इति कः । अभिधीयते-कथ्यते पण्डितैरिति गम्यम् । तारुण्यं स्याद् यौवनिका । तरुणस्य भावः कर्म वा तारुण्यम् । यूनो भावो यौवनिका । स्त्रीपुंसलिङ्गः । "चौरादेः" [७। १ । ७३ ] इति अकञ् । “यूनोऽके" [७ । ४ । ५०] इत्यनेन अके प्रत्यये परे सति युवन्शब्दस्य अन्त्यस्वरादेर्लंगभावः । युवत्वम् युवता च । दशमीस्थो जरत्तरः ॥२१॥ दशम्याम् अवस्थायां तिष्ठतीति दशमीस्थः । “स्थापास्नात्रः कः" [५ । १ । १४२] इति कः । यदाह भागुरिः । इष्टो वयोदशोपेतः पञ्चमी सप्तमीति च । __ प्रवया दशमीस्थः स्यात् । इति । जरन्नेव जरत्तरः । "क्वचित् स्वार्थे" [७ । ३ । ७] इति तरप् ॥२१॥ कविताऽपि कविः स्यात् । "कवृङ् वरणे" कवते कौति वा इत्येवंशीलः कविता । "तृन् शीलधर्मसाधुषु" ५। २। २७] इति तृन् । कवते कौति वा कविः । “ कुङ् शब्दे" "स्वरेभ्यः इ." [उ. ६०६] इति इः । शुचिः, कृष्टिः, किकिः, पठिः, हुण्डिः, रपठो, मन्ता धीवा, बुधानः च । कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । ___ कृतं कर्माऽनेन कृतकर्मा-प्रवीणस्तत्र । कृतम् कृत्यम्-कार्यम्-अनेन कृतकृत्यः। प्रशस्तं कृतम्-कर्म-अस्य कृती। कृतोऽर्थोऽनेन कृतार्थः । सूक्ष्मः, दभ्रः दक्षार्यः निचाकुः च । . कुटिलाशयोऽपि कुचरः। कुटिल आशयोऽभिप्रायोऽस्य कुटिलाशयः । कुत्सितम् चरति कुचरः । कद्वदनानी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy