SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४० ; 10 15 20 श्रीहरिभद्रसूरिविरचितं निरवद्यमिदं ज्ञेयमेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् सर्वयोगविशुद्धितः ॥२॥ यत् पुनः कुशलं चित्तं लोकदृष्ट्या व्यवस्थितम् । तत् तथैौदार्ययोगेऽपि चिन्त्यमानं न तादृशम् ॥३॥ मय्येव निपतत्वेतज्जगदुश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् ॥४॥ Jain Education International असम्भवीदं यद् वस्तु बुद्धानां निर्वृतिश्रुतेः । सम्भवित्वे त्वियं न स्यात् तत्रैकस्याप्यनिर्वृतौ ॥५॥ ऐवं च चिन्तनं न्यायात् तत्त्वतो मोहसङ्गतम् । साध्ववस्थान्तरे ज्ञेयं बोध्यादेः प्रार्थनादिवत् ॥६॥ अपकारिणि सद्बुद्धिर्विशिष्टार्थप्रसाधनात् । आत्मम्भरित्वपिशुना तदपायानपेक्षिणी ||७|| एवं सामायिकादन्यदवस्थान्तरभद्रकम् । स्याच्चित्तं तत् तु संशुद्धेर्ज्ञेयमेकान्तभद्रकम् ||८||” [ हारिभद्रयमष्टकम् २९] इति । परैरप्यस्य प्रविभागो गीतः । यथोक्तम्— “धर्मधातावकुशलः सत्त्वनिर्वापणे मतिम् । क्षेत्राणां शोधने चैव करोति वितथा च सा ॥ आदिधार्मिकमाश्रित्य सज्ज्ञानरहितं यथा । इष्टेथमपि चाऽऽर्याणां सदाशयविशोधनी ॥ [३३– द्वि०] इत्यादि । कृतं प्रसङ्गेन । इति गाथार्थः ॥ ९१ ॥” महाफलोपसंहारमाह जड़ तब्भवेण जाय जोगसमती अजोगाए तओ । जम्मादिदांसरहिया होइ सदेगंतसिद्धि चि ॥९२॥ 25 यदि 'तद्भवेन' तेनैव जन्मना 'जायते' निष्पद्यते । का ? इत्याहयोगसमाप्तिः सामग्रीविशेषेण । ततः किम् ? इत्याह- 'अयोगतया ततः' शैले १. तदेवं चिन्तनं हरिभद्राष्टके ॥ [गा० ९२ For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy