SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Jain Education International यदुसुन्दर महाकाव्य सन्त्युप्रा युधि शतशोऽपि सांयुगीना दातारो जगति परःशताः श्रुता ये । भोक्तारो भुवि रसिकाश्च भूरिशोऽन्ये द्वित्रास्ते परकरणीयबद्ध कक्षाः ||५५|| यच्चिन्तामणिरुपलो दुसः सुरद्रु नर्थित्वं विफलयति स्म सोऽर्थिनोऽपि निष्णातस्त्वमलमलं विलम्ब्य कार्ये मन्दारः कमितरि मादृशेऽस्यवन्ध्यः ॥५६॥ इष्टापत्यै सुरनिवहान्विशोऽर्थयन्ते तेऽपि त्वां समयवशेन मादृशश्च । तत्तूर्ण क्षितिपसुतोपयामसिद्धयै दूत्यं मे सुभगशिरोमणेऽभ्युपैहि ॥५७॥ तेनेदृग्धनदवचो निशम्य सम्यग् - वैदुष्यं किल विबुधेषु नेत्यचिन्ति । तस्या मय्यनुनय एव मे च तस्यां तामेषोऽभिलषति मन्मुखेन दूत्यात् ॥५८॥ स्मृत्वा यां क्षणमपि मूर्च्छितोऽतिमोहा दुह्रान्तश्चकित इवापनिद्र एव । तद्ष्टौ कथमवद्दित्थयाऽस्मि गोप्ता भावस्यापनविधौ कथं प्रभूष्णुः ||५९ || प्राणेभ्यः शतगुणपण्यभूमसीमा या तामप्यभवमहं वरीतुकामः । तद्दत्यं मम वचनीयतैव किंवा ह्रीभारादवनतकन्धरो ब्रवाणि ||६०|| For Private & Personal Use Only ३७ www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy