SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ यदुसुन्दरमहाकाव्य १८३ साहस्रांहिरसौ सुमन्थरगतिः कस्मादकस्माद्रवि विद्मो मन्दसुतस्य पङ्गुजननात्पङ्गुत्वमस्मिन्न किम् । यद् वा त्वत्तरुणप्रतापमहसां व्योमावगाहस्पृशां - सौ रे लङ्घितुमक्षमः क्षतगतिर्मन्दं समुत्सर्पति ।।८५।। आनैश्वर्यमयं विभर्ति भवतः प्रोद्यत्प्रतापार्कत स्तेन द्वेषिमषीमलीमसतमाकीर्तिस्तमीन्न्यकृता । मार्तण्डः करचुम्बिनीमपि तरोश्छायामयीं तामसी मकस्थामपनेतुमक्षमतमः स्वीयैः सहस्रः करैः ॥८६॥ सुत्रामा स्वशचीविवाहनमहे शाततव्यादिशा कुम्भं कुङ्कुमपक्कसक्करममुं प्रीत्या समानाययत् । क्षोणीशन ! तवाभिषेचनमहं घस्रोदयेऽहस्कर निर्मातुं विमलोस्रवाहनिवहैः साहस्रधारेजलैः ॥८७।। सद्यस्तावथ दम्पती प्रमदतः प्रात: प्रबुद्धौ निजं नेपथ्यं मगधेभ्य एव ददतु: प्रातोषिकं स्पर्शनम् । तेऽपि प्राप्य मुदं दधुः परिदधुस्तद्दत्तमुत्तम्भितै-- दोर्दण्डैर्वसुदेवकीर्तनमयं प्रावर्तयन्मङ्गलम् ।।८८॥ आनन्दोदयपर्वतै कतरणेरानन्दमेरोर्गुरोः शिष्यः पण्डितमौलिमण्डनमणिः श्रीपद्ममेरुर्गुरुः । तच्छिष्योत्तमपद्मसुन्दरकविः संदृब्धवाँस्तन्महा . काव्यं श्रीयदुसुन्दरं सहृदयानन्दाय कन्दायताम् ।।८९॥ इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपण्डितेशश्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये सन्ध्यो पश्लोकमङ्गलशंसनो नाम द्वादशः सर्गः ॥१२।। ॥ समाप्तं चेदं श्रीयदुसुन्दरं नाम महाकाव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy