SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८० Jain Education International पद्मसुन्दरसूरिविरचित अस्योद्दामचरित्रचित्रिततनश्चित्रं यशो जृम्भते सद्यस्त्रीणि जगन्ति पाण्डुस्यति प्राग्भारभामण्डलैः । तत्तादृक्प्रतिपक्षपक्षवदनं नीलीचकार क्षणा - द्रक्तानि प्रकरोति तानि सुहृदां हृद्भक्त्रपद्मान्यपि ||७|| प्रत्यर्थिक्षितिपालवंशविपिने संस्फोटसङ्घट्टतः सम्भूतोऽस्य भुजप्रतापदहनो जागर्ति विश्वत्रये । यस्येमाः स्फुटविस्फुलिङ्गकणिका भास्वान्भिदुर्भैरवे भास्वद्भालविभावसुश्च हुतभुग्वारांनिधौ वाडवः ॥ ८॥ अस्मिँस्ततस्तरुणि ! तारतरङ्गितानि दृष्टेः प्रसादय रसादनिमेषितानि । क्षोणीभुजि क्षणविभारुचिभासुराङ्गि ! श्यामाङ्गभाजि भज भूषणभूण्यभावम् ॥९॥ अस्य स्तुतिं सुवदना वदनान्निपीय राज्ञो न राजतनया रजति स्म तस्मिन् । अन्याहते हि पुरुषे परुषायते वा वाचस्पतेरपि वचो रचितप्रचारम् ||१०| जन्याजना नृपसुतां विरतां विमृश्य निन्युर्नृपान्तरमथान्तरलक्ष्यदक्षाः । भङ्गान्तरं शशिकरा इव वाद्धिवेलां लब्धोदयास्तरलितां नु वलक्षपक्षे ॥ ११ ॥ तां दर्शकाऽथ निजगाद कुरङ्गनेत्रेऽमुष्मिन्नुदारचरिते चरितार्थयाशु | स्वं यौवनं किल कलिङ्गधराकलावा नानन्दयत्वममूं तव दृक्चकोरीम् ॥ १२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy