SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका नेवभवनवनातिशयं श्री-सत्या-ऽच्युत-बलप्रशंसाढ्यम् । पुरमिव नेमिचरित्रं रत्नप्रभसूरिसूत्रणया ॥२१॥ कोऽपि गुरुः कोऽपि कविगुरुकविरिह रामचन्द्र एव परम् । सुरसहिताऽपि प्रतिभा स-दा-नवाऽपि स्फुरति यस्य ॥२२॥ काव्यस्यार्थ बुद्धि नवरस भावे स्थिता विचारयतु । श्रीधणपाल-श्रीपाल-जेसालोपज्ञशास्त्रपटुः ॥२३॥ या पद्य-गद्यतो नवरसार्थपोषाय सुप्रसन्नतया । सा जयति चित्तवृत्तिमहात्मनामथ कथा चम्पूः ॥२४॥ १. नेमि० पक्षे नवानां नवसंख्यापरिमितानां भवानां नवनस्य स्तुतेः अतिशयो यत्र तत् । नेमिनाथस्य राजिमन्याश्च प्रणयान्विताः नव भवाः प्रसिद्धाः । पुर० पक्षे नवानां नवीनानां भवनानां बनानां च अतिशयो यत्र तत् । २. नेमि० पक्षे श्री: विष्णुपत्नी लक्ष्मीः, सत्या सत्यभामा, अच्युतः श्रीकृष्णः, बल: बलदेवः तेषां प्रशंसया आदश्यम् । पुर० पक्षे श्रीः लक्ष्मीः, सत्यं सनृता वाकू तयोः यद् अच्युतं बलं तस्य प्रशंसया आढत्यम् । ३. [बभूव इत्यध्याहारः ।] ४. केचित् केवलं गुरवः, केचिच्च केवलं कवयः, परम् अयं रामचन्द्र एव गुरुकविः गौरवशाली कविः अथवा गुरुरूपः व विः, वर्वनां गुरुः अथवा हरपत्वित् बुद्धि प्रतिभाप्रभावशाली कविः । अत्र 'गुरु'शब्देन हरपतिः तथा 'कवि'ब्देन च दानवगुरुः शुक्रो ग्राह्यः । ५. रा० पक्षे सुरसाय शोभनरसाय हिता-सुरसपोषण प्रवणा प्रतिभा । गु० प्क्षे मुरै: सहिता सुरसहिता । ६. ग० पक्षे सदा नवा-नित्यं नवीना । गु० पक्षे दानवेन दानवगुरुणा शुक्रेण सहिता सदानवा । शुक्रस्य दानवगुरुता प्रसिद्धा। ७. अत्र 'नव'शब्दः संख्यासूचकः, नवीनतासूचकश्च । अलंकारशास्त्रे नव रसाः शङ्गारादि शान्तान्ताः प्रसिद्धाः । 'भाव' शब्दोऽपि अलंकारशास्त्रे यस्मिन्नर्थे प्रसिद्धः तदर्थको ग्राह्यः । “भावः त्रिधा-स्थायि-सात्त्विक संचारिप्रभेदैः" इति अलंकारशास्त्र प्रसिद्धम् । “भावयन्ति कुर्वन्ति रसान् , स्वकारणाद् भवन्ति वा, भावयन्ति व्याप्नुवन्ति सामाजिकानां मनांसि वा" तथा "अन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयति” ( अभि० चिं० देवका० २, श्लो० २०८, २०९ तथा मर्त्यका० ३, श्लो० १७३) ८. 'शास्त्रपटु'शब्दान्तं समग्रं विशेषणं 'बुद्धिः' इत्यनेन पदेन सह योज्यम् । महापण्डितेन धनपालेन श्रीपालेन जेसालेन च यानि शास्त्राणि रचितानि तेषु या पटुः चतुरा एतादृशी बुद्धिः, इत्येवमेतद् बुद्धेर्विशेषणम् । 1 भावस्थि खल । 2 जेसलो डे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy