SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता तलश्च सवृत्तेन दिवाकरेण गुरुणा लोकं विधायाप्रतो ध्वान्तस्निग्धसिरोरुहै निजकरव्यापारलो लञ्चितैः । प्रातःश्रीविशदां वरश्रियमधाद् दोषान्धकारोज्झिता भव्यानामनुमोदनीयचरिता सद्धर्मलाभप्रदा ॥२७२॥ प्रभातसमये तदा स्यति तमो-ऽमरालीप्रभु निवेशयितुमुत्सुकश्चरणरङ्गरम्य हृदि । प्रबुद्धकमलाकरो भ्रमरनिगमव्याजतः परित्यजति सर्वतः कुमतवासनाकुग्रहम् ॥२७३॥ तदनु च प्रभातकरणीयस्मरणपूर्वकसम्बोधनेन प्रक्षाल्य सकलशोककलुषमन्तःकरणम् , देवशरणं च निधाय युगबाहुनामाङ्कितमुद्राल तकरारविन्द कम्बलरत्नप्रच्छादितशरीरं कदलीलतागृहमध्ये सर्वस्वमिव बालकम , प्रसवसमयाऽपवित्रवरू शरीरप्रक्षालनायाऽवतीर्णा सरसि महार्णव वारविन्दाल्या समाविष्टा तेन तरङ्गहस्तेन, प्रक्षाल्य च वस्त्राणि यावद् अङ्गोपाङ्ग १. [ सद्वृत्तेन इत्यादिवृत्तम्-सवृत्तेन-सुशीलेन, वर्तुलेन च । गुरुणा-धर्माचार्येण । लोकम् आलोकं च स्वान्तमेव ग्निग्धाः शिरोरुहा:-केशाः । करव्यापारः-हस्तप्रचारः, किरणविस्तारश्च । विशदाम्बरश्री:-श्वेताम्वरशोभा, निर्मलाकाशसंपट , दोषाः-प्राणिवधादयः त एवान्धकार:-रजनीतामसं च शेषं स्पष्टम् ।] वृत्तसहितेन-वर्तुलाकारेण सदाचरणसहितेन वा दोषान्धकारोज्झिता-दोषायाः-राज्याः, अन्धकारेण उज्झिता । २. प्रभातेत्यादिवृत्तम्-प्रभातसमये तमः-अन्धकार, स्यति-हलेदयति सति, चरणयोःपादयोः, रङ्गेण-रक्ततया रम्यम् । मरालीप्रभं-हंसं, हृदि निवेशयितुम-आत्मनि स्थापयितं, प्रबुद्धकमलाकर:-विकस्वरपद्मसरः कर्ता, अन्यत्र च रणरङ्गेन रम्यं-चारित्राभिलाषेण रमणीयम् । अमरालीप्रभु-जिनं हृदि निवेशयितमत्सकः । प्रबुद्धः धर्ममार्गे इति गम्यते । शेषमर्पिताथम् ।। तमः स्यति-छिनत्ति-नाशयति । अमरालीप्रभु-हंसम् । कुमदः-कुमदस्य वासनारूपं कुग्रहम्कुमुदनिवासप्रियताम् , अथवा कुमुदः-कुहर्षस्य-पापजमकहर्षस्य वासनाकुग्रहम्-कदाग्रहम् । अत्र 'स्यति' एतत् 'सो'धातोर्दवादिकम्य वर्तमानकालस्य तृतीय-अन्य-पुरुषम्य एकवचनम् स्यति, स्यतः, स्यन्ति-इत्यादि । अत्र 'तमोऽमरालीप्रभुम्' इत्यस्य 'तमः मरालीप्रभुम्' तथा 'तमः अमरालीप्रभुम्' इत्येवं पदविभागो द्विधा ।। उत्सुकश्चरणरङ्गरम्यम् अस्य एवं पद विभाग:-उत्सुकः चरणरङ्गरम्यम् , चरणं-चारित्रम्संयमः, तथा चरणाः-पादाः । हंसस्य पादाः रक्तेन रागेन रम्या इति प्रतीतम् । 1 प्रत्याख्यात्य स खल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy