________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ० १२७, वि० पृ० १४०
नाध्वना यः सम्प्रयुक्तोऽतीतकालः, अनागतेनाध्वना यः सम्प्रयुक्तस्तच्छेषः, तृतीयस्याध्वनोऽभावात् किंसम्प्रयुक्तो वर्तमानः स्यादित्यध्वव्यङ्ग्यकालवाद्यभिप्रायः ।
६८
आयामियामिनीति । आयामी दीर्घो यो यामिनीनां रात्रीणां भोगः विस्तरस्तेन हेतुना सफलः सप्रयोजनः आभोगविभ्रमः परिणाहाश्रयो गुणविशेषो येषाम् । प्राग्भागो यः सुराष्ट्राणामित्यस्य 'प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः ' इति शेषः । सुराष्ट्रवासिनो यदा पूर्वदिग्रेखात उद्यन्तमादित्यं पश्यन्ति तदा मालवा दक्षिणदिक्संस्थं पश्यन्ति; सुराष्ट्रो [59B]त्तराद् अवस्थितत्वान्मालवानाम् । स एव वर्तमानभवतीति । उक्तम्
अयमेव हि ते कालः पूर्वमासीदनागतः ।
अवश्यंभाविनं नाशं विद्युः सम्प्रत्युपस्थितम् ॥ [ ] इति ॥ भाष्याक्षराणीति । भाष्यकारो हि तत्र तत्र वाक्यमेवोपमानशब्देनाह“यथा गौरवं गवय इत्युपमाने प्रयुक्ते" इत्यादौ [न्या० भा० १.१.६] । अथ सोपप्लवा अनिराकाङ्क्षा | श्यामलापि तादृश्येव ।
सू०
अत्यन्तप्रायेति । 'अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धि:' [ न्या० २.१.४४] इति सूत्र लक्षयति । अत्यन्तसाधर्म्यादुपमानं न सिद्ध्यति, न हि भवति यथा गौरवं गौरिति प्रायः साधर्म्यादपि न हि भवति यथाऽनड्वांस्तथा महिष इति, एकदेशसाधर्म्यं तु सत्तापेक्षया सर्वेष्वस्तीति ।
तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनीति । अमुकस्यायं सदृश इति द्वयोः ग्रहणसापेक्षत्वात् सादृश्यप्रत्ययस्येति ।
Tara सादृश्यमिति । न हि गोः पक्षीकृताया गवयगतं [ सादृश्यं धर्मः, ] तस्य गवयधर्मत्वात् । नापि गोगतमिति । गोगतं यद् गवयसादृश्यं ' गवयसदृशी सा' इति बुद्धिनिमित्तम् तत् प्रागुपमानयापारादसिद्धम् । प्रतिज्ञार्थैकदेशत्व [60A ] नापि कल्प्यमानं ग्रहणम् ।
....
१ श्लो०वा०शब्द नित्यता १६३-६४ २ तुलना - " अत्यन्त साधर्म्यादुपमानं न सिध्यति । न चैवं भवति यथा गौरव गौरिति । प्रायः साधर्म्यादुपमानं न सिध्यति, न हि भवति यथाऽनड्वानेव महिष इति । एकदेशसाधर्म्यादुपमानं न सिध्यति, न हि सर्वेण सर्वमुपमीयत इति "न्या० भा० २.१.४४ । ३ गवये गृह्यमाणं च न गवामनुमापकम् । श्लो०वा० उपमान० ४४ । ४ न तावद् गोगतस्य, उपमानज्ञानोत्पत्तेः प्रथममप्रतीतेः तत्प्रमेयत्वात् तस्य । उम्ब्रेकटी० उपमान०४४। १ प्रतिज्ञार्थैकदेशत्वाद् गोगतस्य न लिङ्गता ॥ ४४ ॥ श्लो०वा० उपमान० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org