________________
भट्टश्रीचक्रधरप्रणीतः का०पृ०८६, वि०पृ०६२ जनकः स पश्चादप्यजनक एव । तस्य हि तज्जन्मन्युपयोगो योग्यदेशावस्थितत्वम् , स च प्रागप्यस्ति; प्राक् चेदजनकः स पश्चादप्यजनक एव । अतोऽर्थाभावेऽपि नेत्रधीः। नेत्रघोरूपतया भवदभिमता सविकल्पिका बुद्धिर्भवेदिति ।
अर्थोपयोगेऽपीति' । अर्थस्योपयोगेऽपि योग्यदेशा[47B]वस्थितत्वेऽपि यदि स्मर्यमाणशब्दसंपर्कमपेक्षेत तज्ज्ञानम् , तदा सोऽर्थो व्यवहितो भवेत् । स्मरणजन्मन्येव तस्य व्यापृतत्वात् तज्जन्मनि पुनरव्यापरणं व्यवधानम् ।
लौकिकी स्थितिमिति । हस्तस्थदण्डे दण्डी न पादाद्याक्रान्तेऽपीति सङ्कल्प्य संयोज्यैकत्र तथा प्रत्येति दण्डीति उच्यते ।
ननु तथाविधे दण्डीत्यादौ कल्पनाज्ञाने यदुपलब्धं रूपम् कीदृक् तदुपलब्ध. मित्याह-सकेतस्मरणोपायमिति । दृष्टसंकलनात्मकं पूर्वदृष्टस्य दृश्यमानेन सह संयोजनात्मकम् ।
एकस्यार्थस्वभावस्येति । एकस्य निर्भागस्य । प्रमाणैरिति । सविकल्पकैः प्रत्यक्षर्भवदभिमतैरनुमानैश्च । यदि हि प्रत्यक्षेणैवानित्यत्वादिसकलविशेषच्छुरितः शब्दो गृहीतस्तत् 'अनित्यः शब्दः कृतकत्वात्' इत्यनुमानेन किं कार्यमित्यर्थः ।।
जातिजातिमतोभदो न कश्चिदिति । न व्यक्तेर्व्यतिरिक्ता जातिरुपलभ्यते, तदुक्तम्-'अयं गौः' इति हि लौकिकाः प्रतिपद्यन्ते, न 'इदं गोत्ववद् द्रव्यम्' इति भेदेन ।
आत्मानं नो दर्शयति, एषोऽहमस्माद् व्यतिरिक्त इति ।
ननु ज्ञानानां निर्विषयत्वाभावाद् भिन्नसामान्याभावे कथं सामान्याका[48A] रज्ञानादय इत्याशझ्याह-व्यक्तिविषया एवैत इति ।
न तमे(तेनै ?)कश्चोधो भवति । नासौ दोष एकस्य वाच्यः । इन्द्रियालोकमनस्कारेति । मनस्कारः समनन्तरप्रत्ययः ।
न शब्दोऽस्यामर्थारूढोऽवभासते इत्यध्यासपक्षः । स्वरूपादप्रच्युतस्यासत्याकारोपग्रहो विवर्तः - स्वप्न इत्यविज्ञातस्य स्वापाकारापरित्यागेनासत्यगजाश्वाकारोपग्रहः ।
१ प्र० वि० पृ० ४२। २ प्र० वा० २.१४५ । ३ प्र० वा०२. १७४ । ४ प्र० बा० ३. ४२। ५ द्र. टि०४. पृ०५३। ६ समश्चासौ ज्ञानत्वेन, अनन्तरश्चासौ अव्यवहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः । न्या०बि०टी० पृ०५९ । धर्मो०प्र० पृ०५' । मनस्कारो हि विज्ञानस्योपादान कारणम् । हे०बि०टी० पृ०९४ । 'समनन्तर'शब्दः समश्चासौ बोधरूपत्वेनानन्तरश्चापवहितेनेति व्युत्तस्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न स्वागमसिद्धयाश्रयणेनोपादानमात्रे, उपादानलक्षणस्यैवाभिधानात् शकन्भ्वादिपाठाच्च दीर्घत्वाभावोऽवसेयः । हे०बिष्टी०आ० पृ० ३३३ । चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः। अभि० को० २.६२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org