________________
का०पृ०७८, वि०पृ० ८३] न्यायमञ्जरीप्रन्थिमङ्गः ल्पकज्ञानजन्यः' इत्यभ्युपगतं बलाद् भवति" इत्यभिप्रायेण ज्ञापकतयोपन्यस्तम् । कृत-तद्धित-समासेषु सम्बन्धाभिधानम् । 'पाचकत्वौपगवत्वराजपुरुषत्वादौ कृत्तद्धित-समासेषु सम्बन्धाभिधानमन्यत्र रूढचभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः' इति' परिपूर्ण वार्तिकम् [ ] । तेन सत्यपि कृच्छब्दत्वे कुम्भकारत्वमित्यादौ न सम्बन्धाभिधानम् , जातिरेव तत्र स्वत्ययाभिधेया; रूढिशब्दत्वात् संज्ञाशब्दत्वादस्य । शुक्लगुणव्याप्तः शुक्ल इति मत्वर्थीय[43A]प्रत्ययलोपपक्षे शुक्लस्य भावः शुक्लत्वमिति न गुणसम्बन्धाभिधानम् , अपि तु द्रव्यादभेदरूपेणास्य शुक्लशब्दस्य प्रवृत्तेर्गुणमात्रवाचित्वमेव । एवं सतो भावः सत्तेत्यत्र पदार्थानां सत्तासम्बन्धेनाव्यभिचारान्न तत्सम्बन्धोऽभिधेयोऽपि तु सत्तैव ।
भोः साधो ! चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रप इति । अनेन वरं चाक्षुषत्वमस्याभ्युपगम्यतां न त्वत्यन्तासम्बध्यमानं शाब्दत्वमिति । प्रौढवादितया स्वयं शब्दविशिष्टार्थप्रतिभासम्-अभ्युपगमेनापि-प्रतिपादयति ।
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः । निर्विकल्पके शब्दविशिष्टस्यार्थस्य तद्वाच्यस्याप्रतिभासात् , चक्षुषः शब्दाविषयत्वात् । शाब्दज्ञानेन तबोध इति । शब्दात् तदनुरक्तार्थप्रत्यये तेनार्थेन शब्दस्य सम्बन्धग्रहणम् , गृहीतसम्बन्धश्च शब्दोऽर्थ प्रत्याययतीतीतरेतराश्रयता ।
प्रत्यक्षास्त्रेण हन्तव्य इति । अयं भावः । 'यदि अर्थासंस्पर्शिनः शब्दास्तत्प्रत्यक्षमप्यर्थासंस्पर्शि प्राप्तम्, तत्समानविषयत्वाच्छब्दानाम्' इत्युक्ते प्रत्यक्षस्यार्थासंस्पर्शित्वानभ्युपगमान्निवतेत बौद्धः। तत्र निर्विकल्पकं तावा43B] समानविषयं न भवति वाच्यताविशिष्टार्थप्रतिभासस्य भवन्मते शब्दजत्वात् , तादृशस्य चार्थस्य निर्विकल्पकाविषयत्वात् ; सविकल्पकं च न प्रत्यक्षं तवेति ।
___ अनेन वर्त्मनाऽवतरन्तं शब्दाध्यासमिति । किल सति गौरयमित्यादिके शब्दोल्लेखेनोत्पद्यमाने ज्ञाने सामान्यादयोऽवभासन्ते, असति तु शब्दोल्लेखेन ज्ञाने नावभासन्ते; अतः शब्दवशादवभासमानास्ते कथं न शब्दाकाराः स्युः ।
१ उद्धृतमिदं न्यायकणिकायाम् पृ०२७)। तुलना-एतेन सर्वे यौगिकाः कृत्-तद्धितसमासेषु व्याख्याताः । सर्वत्र हि भावप्रत्ययः सम्बन्धमभिधत्ते । राजपुरुषत्वमौपगवत्वं पाचकत्वमिति । तन्त्रवा० ३.१.६। २ द्र. वाक्यप० १.११.१२३। ये यदाकारानुस्यूताः ते तन्मयाः ...."शब्दाकारानुस्यूताश्च सर्वभावाः इति स्वभावहेतुः । यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथाहि-शब्द एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्-'न सोऽस्ति वर्तते ॥इति॥ ज्ञानाकारनिबन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वं तस्सिद्धौ च तन्मयत्वमपि सिद्धमेव, तन्मात्रभावित्वात् तन्मयत्वस्येति । तत्वसं०५० पृ०६७-६८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org