________________
રૂક
भट्टश्रीचक्रधरप्रणीतः
[ का० पृ०४५. वि०पृ० ४८
शब्देन विपरीतलक्षणया प्रतिपादयन्ति । अपि च, अस्ति तावदेवंप्रायाद् वाक्यादित्थम्भूतनैमित्तिकावगतिः, अस्यां चावगतौ यथा निमित्तानां निमित्तत्वमवकल्प्यते तथा कल्प्यमिति । एतदेव चेतसि निधाय 'एतेन पण्डितंमन्यः' इत्यत्र 'एतेन' इति सर्वनाम प्रयुक्तम् । युक्तं च प्रतीयमानार्थप्रतिपत्तेः शाब्दत्वमेव, अन्यथेदृशमर्थमवगम्य प्रति'पत्तुः 'उत्प्रेक्षितो मयाऽयमर्थो न तु शब्दात् प्रतिपन्नः' इति प्रतीतिः स्यात्, अस्ति च शाब्दत्वेन प्रतीतिः, अतः शाब्द एवायम् । यस्य तु यथाश्रुतग्राहिणो विधिमात्रप्रतीत्यैव संतोषः सोऽनवधारितवाक्यार्थ एव । यदाहु: - ' गन्तव्यं दृश्यतां सूर्यः' इत्युक्ते बहिर्निःसृत्य प्रविश्य यो ब्रूयाद् 'दृष्टः सूर्यो निर्मलः प्रकीर्णरश्मिः' इति, न तेन यथोक्तं कृतमित्युच्यते, कालविशेषोपलिप्सानिबन्धनत्वाद् वाक्यस्येति । तथा काकेभ्यो रक्ष्यतां सर्पिरिति बालो - [31A]sस्य चोदितः ।
उपघातपरे वाक्ये न वादिभ्यो न रक्षति || [ वाक्यप० २. ३१२] एवं चैवमादौ सर्वत्र नैमित्तिकावगतिपूर्वकत्वेन निमित्तानां निमित्तत्वव्यवस्थापनान्न निमित्तस्वरूपमात्राश्रयणेन व्यवहारः प्रवर्तनीयः । आह च-
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ [ वाक्यप० २. २४७ ] |
तदित्थस्थिते न्यायस्य समानत्वाद् यथा 'रसायनोपयोगादमृतो जायते' 'दध्युपयोगात् पृथिव्यां निमज्जति' इत्यत्र 'दीप्ताग्निर्मन्दाग्निश्च भवति' इत्ययमर्थस्तात्पर्य शक्तया वाक्यार्थस्तथा सर्वत्र व्यङ्गयाभिमतोऽर्थात्मा वाक्य तात्पर्यशक्तिकोडीकृतत्वाद् वाक्यार्थ एव । ' पान्थ ! मा मे गृहं विश' इत्यत्र निषेधं प्रति कारणोपन्यासो यः कृतः स विरुद्धत्वात् विधिमेव पर्यवस्थापयतीति विधिरेव वाक्यार्थ इत्यलमतिप्रसङ्गेन । तत्र तत्र लक्षणादौ । तथा तथा तेनैव प्रकारेण लक्षणाद्यात्मकव्यापारसमाश्रयेण ।
दृश्यादर्शनशेब्दवाच्य इति । दृश्यस्य दर्शनयोग्यस्य यददर्शनं तच्छन्दा
भिलप्यः ।
सात्मनोऽपरिणामो वेति' । घटज्ञातृतालक्षणावस्थाऽनाविर्भावोऽत्रापरिणामो
विवक्षितः ।
१. मम हि दृश्यादर्शनमभावज्ञानकारणम्, अदर्शनं च दर्शनाभावः । शास्त्रदी० पृ० ३२८ । २ श्लो०वा० अभावप्र० ११ । सा प्रत्यक्षादेरनुत्पत्तिः निषेध्याभिमतघटादिपदार्थज्ञानरूपेण परिणतं साम्यावस्थमात्मद्रव्यमुच्यते, घटादिविविक्तभूतलज्ञानं वा । तस्वसं ० पं० पृ० ४७१ । तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः । आत्मनोऽपरिणाम एकः, पदार्थान्तरविशेषज्ञानं द्वितीयः, “सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" इति वचनात् । प्रमाण निवृत्तिमात्रात्मकस्तृतीयः । तवसं०पं० पृ०४७३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org