________________
भट्टश्रीचक्रधरप्रणीतः
[का०पृ०३, वि०पृ०३
योगो निर्बीजः ' समाधिः । योगाङ्गस्य पुनः समाधेर्लक्षणम्- "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” इति [पातञ्जलयोगसूत्र, ३. ३.] । तच्छब्देनात्र सूत्रे "तत्र प्रत्ययैकता[नता] ध्यानम्" इति [पातञ्जलयोगसूत्र, ३. २.] प्राक्सूत्रनिर्दिष्टं ध्यानं पंरामृष्टम् ।
सर्वो हि शास्त्रार्थ इति । सर्वः काम्यनित्यादिः शास्त्रार्थः पुरुषार्थे स्वर्गप्रत्यवायपरिहारादौ पर्यवस्यति; न स्वरूपनिष्ठो यथा प्राभाकरा नित्यान् कर्तव्यत्वादेव कर्तव्यानाहुः, न पुरुषार्थहेतुत्वेन, काम्यैरविशेषप्रसङ्गः स्यादिति [3 A] वदन्तः । इतिहास-पुराणाभ्यामपीति । तयोहि वेदविहितमेव कचित् तत्प्रतिषिद्धं क्वचित् विशिष्टपुरुषाचरणद्वारेण विशिष्टफलप्रदत्वेन प्रदर्शितम् --'इदं कर्मामुना समाचरितम् , समाचरितवांश्चैवंविधे[ना]भ्युदयरूपेण फलेनासौ संबन्धमभजत; अन्येन चैतन्निषिद्धमाचरितम् , सोऽप्येवंरूपेणानिष्टेन फलेन योगं प्राप' इति वैदिक एवार्थो विशिष्टपुरुषानुष्ठानतत्फलकीर्त ने]न प्रतन्यते । यथा दशरथादेर्वेदोदितां पुढेष्ट्यादि. क्रियामनुष्ठितवतो राम-भरतादिपुत्रजन्मप्रवर्तनम् , नहुषादेश्च ब्राह्मणावगूरणादिनिषिद्धाचरणेनाजगरत्वाप्त्याद्यनिष्टफलकीर्तनम् । तथा च लोके व्याधिता न तथा वैद्योपदिष्टौषधादिसेवने. प्रवर्तन्ते यथा पार्श्वस्थोक्ताः 'इदमौषधं सेव्यताम्, अस्मिन् हि सेविते ममान्यस्य चैष व्याधिरा] श्वेव विनष्टः' इति । वेदं समुपद्व्हयेत्. [इति] । वैदिकानि विधिवाक्यानि पौराणिकैरैतिहासिकैच तत्फलपरैरुपाख्यानैर्विमिश्रयेदित्यर्थः । न च सम्यग् मदभिधेयानु[ष्ठे]यसारूप्याद् मया वेदेन करणभूतेनानुष्ठेयत्वेन प्रतिपादित इति बुद्धया गृहीत्वा प्रतरिष्यति प्रतरणेनानुष्ठाने [3 B] ............
त्रैकाल्य[सिद्धेतोरहेतुसमः । अहेतु]समादीनां प्रत्यवस्थानानां हेतुप्रतिबिम्बनरूपत्वाभिप्रायं प्रायोग्रहणम् । .
निर्णेयतत्त्वाच्चे(श्चे?)ति । प्रमाणादीनां तत्त्वस्यैवात्र निर्णीयमानत्वात् तत्त्वस्य ज्ञानमिति व्यतिरेकनिर्देश एव युक्त इत्यर्थः । उपसर्जनं नोपसर्जनमिति । 'इद
१ तस्यापि निरोघे सर्वनिरोधान्नि/जः समाधिः । योगसू. १. ५१ । संप्रज्ञात. कालीना साक्षात्काररूपिणी या वृत्तिः तस्या अपि वक्ष्यमाणपरवैराग्येण निरोधे जायमाने त्वसंप्रज्ञातयोग इत्यर्थः । योगवा० १.१। अतस्तस्यां विरक्तं चित्तं तामपि निरुणद्धि, तदवस्थ चित्तं संस्कारोपगं भवति, स निर्बीजः समाधिः, न तत्र किञ्चित् संप्रज्ञायत इत्यसंप्रज्ञातः । व्यासभा० १.२ । २ पद्मपुराणपाताल० ११६ । भागवत ९.२३८ । ३ महाभा० उद्योग० ११.१७ अनुशा० ११५-१५७ । भागवत ६.१८. २-३ । ४. ४-५ पत्रद्वयं नोपलब्धम् । ५ न्या० सू० ५. १. १८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org