________________
का०पृ० १९४, वि०पृ०६४२ ]
अविशेषसमायां च यः समाधिरुक्तः कचिद्धर्मानुपपत्तेरित्यादि । अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यत इति । नानित्यः शब्द इत्येवंरूपः प्रतिषेधः । अनित्यत्वादभाव इति तु व्यवहारमात्रमिति । असत्यपि भेदे राहो : शिर इतिवदिति भावः । घटाभाव इति नास्माद् व्यपदेशादाश्रयाश्रयिभावः सिद्धयति, प्राग्वद् व्यवहारमात्रत्वादस्येति तात्पर्यम् ।
न्यायमञ्जरीग्रन्थिभङ्गः
आम्रसेकपितृतर्पणन्यायेनेति । जातयोऽप्यवश्यं व्युत्पाद्याः व्युत्पादिताः, परोक्तदूषणाभासानि च सिद्धान्तसारभूते शब्दानित्यत्वसाधन उद्धर्तव्यान्युद्धृतानीति ।
२४३
विविधः प्रतिषेधो विप्रतिषेध इति । अनित्यः शब्दः प्रयत्नान्तरीयकत्वादिति स्थापनावाद्युक्तः प्रथमः पक्षः, प्रयत्नकार्यानेकत्वादिति प्रतिषेधवायुक्तो द्वितीयः पक्षः, स च प्रतिषेधाख्यस्तस्यास्य प्रतिषेधस्य प्रतिषेधेऽपि समानो दोष इत्ययं तृतीयः पक्षः विप्रतिषेध इत्युच्यते, 'वि' शब्दश्चात्राविवक्षितार्थः । तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः इतिवत् । सोऽपि पूर्ववदनैकान्तिक एव । प्रतिषेधस्य साधत्वं निषेधति न स्वरूपमित्यादिना ।
स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहार इति । स्वपक्षलक्षणेऽपेक्षोपपत्तिर्यस्य । प्रतिvastu समानो दोष इति । अस्यानैकान्तिकत्वदोषस्य स्वपक्षेणापेक्षोपपत्तिस्तस्योपसंहारस्तथात्वेनोद्भावंन( वनं ?) । तस्य च हेतुनिर्देशः, इत्थमनैकान्तिकः प्रतिषेध इति । इत्थमिति कोऽर्थः ? साधकत्वं प्रतिषेधति न स्वरूपमिति । षष्ठेऽपि तथैवेत्यतः परं समानं तृतीयपञ्चमयोरिति सूत्रम् ।
Jain Education International
॥ निग्रहस्थानेषु ॥ अत एव कर्मकरणयोर्न निग्रहमादिशन्तीत्यनेन वार्तिककारं निर्दिशति । स हि परपक्षोऽपि दूष्यत इति पराभ्युपगमं निराकर्तुमाह " एतत् तु न सम्यक् कर्मणस्तादवस्थ्यात् । न हि दूषणाभिधानेन कर्मणोऽन्यथात्वं भवति यथाभूत एवासौ दूष्यमाणस्तथाभूत एवादूष्यमाण इति न करणस्य विषयान्तरेऽसामर्थ्यात्, साधनमपि प्रतिज्ञादिकं न दूष्यते विषयान्तरेऽसामर्थ्यात् । न हि किञ्चित् साधनं यद् विषयान्तरे समर्थ स्यात् सर्वं साधनं सविशेषणं विषये समर्थमिति । तस्मादसमर्थयोः कर्म-करणयोरुपादानेन कर्तुर्निग्रहः" इत्यादि [ न्यायवा ५.२.१] | तत्त्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते व्याप्नुवन्त्याक्रामन्ति ।
साध्यते चेत् तर्हि प्रतिज्ञान्तर [ मे ? ] वेति । कथं ज्ञायत इत्याह -- हेत्वाद्यaraवैलक्षण्यादिति ।
१ मुद्रितमञ्जर्या तु 'अविशेषसमायां जातौ यत् साधनमुक्तम्' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org