SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ का०पृ०१६२, वि०पृ०६०६] न्यायमञ्जरीप्रन्थिमनः ___ इतरतद्विपरीतविनिर्मक्तत्वादिति सत्त्वस्य साध्यत्वादितरतद्विपरीतमसत्त्वम्, तेन विनिर्मुक्तत्वादिति । अन्यत्रापि असन् सर्वज्ञ इत्यत्राप्यसत्त्वं साध्यं तदितरतद्विपरीतं सत्त्वमेवं केचिद् व्याचक्षते । तच्चायुक्तम्, एवं हि सत्त्वात् सन्नित्युक्तं स्यादितरशब्दवैयर्थ्य च । तस्मादेवं व्याचक्षते--सर्वज्ञः सन् , कुतः ?, इतरतद्विपरीतविनिर्मुक्तत्वात् । इतरो द्वितीयो यः सर्वज्ञ एव तद्विपरीतः सन् सर्वज्ञविपरीतः असन्, तेन विनिर्मुक्तत्वात् तदभावोपलक्षितत्वादित्यर्थः । यदि हि इतरो द्वितीयः कश्चिद् विपरीतोऽसन्नपि सर्वज्ञशब्दवाच्यः सर्वज्ञतया सिद्धः स्यात् तदा म(अ)सतोऽपि सर्वज्ञतया समुपलम्भात् प्रकृतेऽपि सर्वज्ञतया असत्त्वमासंध्येज(सञ्ज्येत)। नन्वस्ति इतरोऽसन् सर्वज्ञः कश्चित्, अतः सन्नेव सर्वज्ञ इति, यथा इतरेणासता घटशब्दवाच्येन घटेन विनिर्मुक्तो घटः सन्नेव नासन्; यः पुनरसन्नेव सोऽपि इतरेणासता विनिर्मुक्तो, यथा काचिच्छशविषाणव्यक्तिः शशविषाणव्यक्त्यन्तरस्यासत्त्वभूतस्योपलम्भान्न सती । एवं द्वितीयप्रयोगे असन् सर्वज्ञः, द्वितीयस्य सत्त्वेन सिद्धस्य सर्वज्ञस्य उपलम्भाद् यदि सन्नपि सर्वज्ञतया सिद्धः स्यात् तत्प्रकृतेऽपि सत्त्वमाशङ्क्येत, नत्वसावस्ति; यथेतरस्य शशविषाणस्य सिद्धि]स्याभावादसन्नेव शशविषाण इति । अत्राप्याक्षेपः प्रतिसाधनं चेति । अत्रापीतरशब्दश्च(स्य !) प्रकृतपरामर्शकत्वात् तेन किं सर्वज्ञस्य परामर्श उत घटस्येत्यन्यतरशब्दवदाक्षेपप्रतिसमाधाने । सत्त्वे च सा[56]ध्ये 'नासिद्धे भावधर्मोऽस्ति' [प्र०वा० ३.१९०]इत्यादि परिचिन्तनीयम् । किमस्ति न वेति तत्राक्षेपे वाद्यस्तीत्याह, प्रतिसमाधानवादी तु बुद्ध्यारूढस्य बाह्यानुपादानत्वसाधनाद् बौद्धेन च रूपेण सत्त्वानास्ति धर्मीत्याह धर्म्यसिद्धतेति । __हेतुस्वरूपे तावदन्यतरस्य वाचिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति । अज्ञानमसिद्धत्वं यथा अनित्यः शब्दः कृतकत्वादिति, कृतकत्वे मीमांसकस्यासिद्धता । अनित्यः शब्दः चाक्षुषत्वादित्युभयासिद्धः । किमयं बाष्पो धूमो वेति हेतुत्वेनोपादीयमानो द्वयोरेकस्य वा संदिग्धः । वह्निर्न दाहकः शैत्यात्, अनित्यः शब्दोऽश्रावणत्वादित्युभयोर्विपर्ययः । तथा तदाश्रयेऽपि धर्मिण्येकस्य वेति । आत्मा धर्मी सर्वगत इति साध्यं सर्वत्र दृष्टकार्यत्वादित्यत्र हेत्वाश्रये आत्मनि अज्ञानं बौद्धस्य, लौकिकानां तु संशयः । अस्मिन्नेव बौद्धेन चार्वाकं प्रत्युक्त उभयोरज्ञानम् । तदेकदेशे कचिद् वृत्तिः यथा नित्याः परमाणवो गन्धवत्त्वादिति । गन्धवत्त्वस्य पार्थिवेषु परमाणुषु वृत्तिस्तदितरत्राऽऽप्यादिष्ववृत्तिः । एकदेशवृत्तावपि द्वयोरेकतर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy