SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३० भट्टश्रीचक्रधरप्रणीतः [ का पृ०१२६, वि.पृ०५७६ विशेषविधिरूपेणेति । साधर्म्य वैधाभ्यां पूर्व प्रतिपाद्य केवल वैधम्र्येणैव प्रतिपादनं विशेषविधिः शेषप्रतिषेधफलो वामेनाक्ष्णा पश्यतीतिवत् । अत एव च भाष्यकार इति । स हि "उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः” इति सूत्रं न्यायसूत्र १.१.३४] व्याख्याय 'तथा वैधात्' इत्यस्य सूत्रस्य न्यायसूत्र १.१.३५] अवतारणाय 'किमेतावद्वेतुलक्षणम्' इत्याह । 'अनित्यः शब्दः' इति च प्रतिज्ञामुक्त्वा 'उत्पत्तिधर्मकत्वात्' इत्युभयत्रहेतुमाह । ___ यथा कथञ्चिद् व्याख्यास्याम इति । अन्वयव्यतिरेकिणो यल्लक्षणं प्राक् प्रतिपादितम् आहोस्विद् अन्यस्यापि हेतोरन्यत् किञ्चिल्लक्षणं विद्यत इति—प्रश्नभाष्यमेवं व्याख्येयमुत्तरभाष्यं तु स्पष्टमेव । 'समानो धर्मों लिङ्गसामान्यमिति । लिङ्गसामान्यधूमत्वं द्वयोः सम्भवति न धूमव्यक्तिरिति [46] लिङ्गसामान्यग्रहणम् । दृष्टान्तोदाहरणशब्दयोः समानाधिकरणमविरुद्धमिति । दृष्टान्त उदाहरणप्रतिपाद्यो दृष्टान्त इत्यर्थः । नन्वेवं यत्र हेतुकृतेति । साध्यसाधाद् लिङ्गसामान्यात् तस्य साध्यस्य धर्मस्य भावः ख्यापते(प्यते) यत्र स दृष्टान्त उदाहरणमिति तत्र व्याख्यानात् । प्रयोजकत्वमग्नेश्चेति । साध्येन धर्मिणा साधर्म्य समानो धर्मोऽनुमेयसामान्यं तस्मादित्येवं व्याख्या । न चैवं युज्यते वक्तुमनैकान्तिकदोषत इति । यत्र यत्राग्निस्तत्र तत्र धूम इति ह्युच्यमाने शुष्कन्धनप्रभवेऽग्नौ धूमस्याभावादनैकान्तिकत्वम् । सपक्षकदेशवृत्तेरिति । धूमो हि हेतुः सपक्षकदेशवृत्तिः, अग्निमन्तो हि प्रदेशाः सपक्षाः, न च सर्वेष्वसावस्ति, शुष्कन्धनप्रभवेऽग्नावसम्भवात् । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वय इति । एवं ह्युच्यमाने प्रकृतेन हेतुवचनेन साध्यसम्बन्धेनान्वयो न प्रदर्शितो भवति । यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । व्याप्यस्य प्राथम्येन यच्छब्देन च निर्देशः कर्तुमुचितो व्यापकस्य तु पश्चाद् निर्देशस्तच्छब्देनैव कार्यः—यत्र धूमस्तत्राग्निरितिवत् । तदुक्तम्-- १ मुदितमजर्या तु 'समानधर्मो' इति पाठः । २ सोऽयं दृष्टान्तः साध्यसाधात् तद्धर्मभावित्वेन विशेषणेन युज्यमान उदाहरणं भवति, उदाहृयतेऽनेन धर्मयोः साध्यसाधनभावः इत्युदाहरणम् । ननु च करणकारकारिग्रहाद् वचनमुदाहरणं दृष्टान्तश्चार्थो न चानयोः सामानाधिकरण्यं युज्यते, न हि विषाणादिमदित्यभिधानं गवा. समानाधिकरणं भवति । नैष दोषः वचनविशेषणत्वेन दृष्टान्तस्योपादानान्न स्वतन्त्रा दृष्टान्त उदाहरणम् , किन्तु साध्यसाधात् तद्धर्मभावित्वे सति अभिधीयमान इति । न्यायवा० १.१.३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy