SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२२ भट्टश्रीचक्रधरप्रणोतः [का०पृ० १०१, व०पृ० ५३३ गवि सास्नादिमद्रूपेति'। सास्नादिमदाकारा। अर्थेन स्वप्रकटनायै गृहीतत्वाद् बुद्धस्तदाकारत्वमुच्यते, न पुनर्वस्तुतः, निराकारज्ञानवादित्वाद् मीमांसकस्य । [39] द्वे ब्रह्मणी वेदितव्ये इति । वैखर्यायवस्थात्रयेण विवृतं शब्दब्रह्म, परं तु अविवृतावस्थं सकलपरिकल्पनातीतम् । अविद्यामायाविनिर्मितेति । अविद्यैव मायेन्द्रजालप्रख्या । एतेन परमात्मोपादानत्वमपीति । पूर्वं त्वमेदादर्शि(श)नमविद्येत्युक्तम्, अधुना तु भेदानां परमात्मैवोपादानकारणमित्यभिधीयते। मा भूद् भेदप्रपञ्चस्य मायाप्रदर्शितत्वमसत एव । तस्मात् परमात्मैव तथाविधस्य भेदप्रपञ्चस्योपादानमिति । पूर्वत्र केवलाविद्यावशादभेदाग्रह इह तु परिणत्या अविद्यया चेति । सर्वत्र चैतन्याभिव्यक्तेरचेतनाच्चैतन्योत्पत्तेरयोगाद् व्यापकत्वात् तस्यैव कारणत्वं युक्तम् । प्रकाशात्मिकयैव शक्त्या पदार्थान्यचे(नामचे)तनानां सत्त्वव्यवस्थापनात् तच्छक्त्या अविनिर्भाग इति । प्रत्यगात्मवृत्तेरिति प्रति शरीरम् अञ्चतीति प्रत्यङ् नियतशरीरवर्ती य आत्मा तद्वृत्तः । परिस्फुरदित्यादि प्रस्फुरन् शब्दविविक्तः स्वाकारो यस्य । कथमेव(मिव ) विकृतिब्रह्मणो वेदृशी स्याद(द) अविशुद्धा विशुद्धस्य । विकारा हि दध्यादयो न सर्वात्मना प्रकृतिधर्मविसदृशा दृश्यन्ते । अमी तु जीवादयो विकाराः नित्यप्रबुद्धशुद्धस्वभावस्य तदीयधर्माननुवर्तनात् कथं विकाराः । पुनः प्रत्यवतिष्ठते । स्वमते विशेषं पश्यन् । न ग्रहणग्रहणम् स्वरूपग्रहणमित्यर्थः । येन प्रतिकर्म विभज्यते प्रतिकर्म प्रतिविषयं विभज्यते विभक्त उत्पद्यते । बाह्यसिद्धिः स्याद् व्यतिरेकत इति । असति बाह्ये तदाकारस्य ज्ञानस्यानुत्पादादित्यर्थः । - षण्णगरीति च कथं बहूनामन्यलिङ्गानामिति । अन्यलिङ्गानां नपुंसकलिङ्गानाम् तैश्च नगरैस्तन्तुभिरिव पटैकस्यानारम्भात् तेषामपि समुदायरूपत्वात् परमार्थसतामभ(भा)वात् । ह्रस्व-दीर्घयोश्च परस्परापेक्षग्रहणयोरिति । किञ्चिदन्यापेक्षया हस्वमपरापेक्षया च दीर्धमिति । १ श्लो०वा प्रत्यक्ष०१८५ । २ मैत्रा० उप०६.२२ । ३ मुद्रितमजर्या तु 'नाग्रहणम्' इति पाठः । ४ प्र. वा. २.३०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy