SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१७ का०पृ०९१, वि०पृ०५२३] न्यायमन्जरीग्रन्थिभङ्गः अनुवन्धवृत्तित्वात् क्लेशानामिति । अनुबन्धेनैकस्योत्पत्तौ पुनरन्यस्योत्पत्तिरित्येवंरूपेणोत्पन्नस्य च तस्यैव पुनरुत्पत्त्या सदाऽऽत्मनस्तैरवियुतत्वात् तदनुबन्धित्वम्' । अहरहब्रह्मलोकं यान्तीति । सुषुप्तावस्था[35]भिप्रायेणाह । 'न प्रवृत्तिः प्रतिसन्धानाय' इति पदं 'न देहेन्द्रियजन्मने प्रभवति' इत्यनेन व्याख्यातम् । अविद्यातृष्णे इति । तृष्णाशब्देन रागादयः क्लेशा अभिहिताः । आत्मज्ञे चैतदस्तीत्यस्य पूर्वमर्धम्-"प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद् भविष्यति" ॥ इति [श्लो०वा० संबन्धाक्षेपपरिहार १११] ॥ उत्तरस्य भाविनः कर्मप्रचयस्याकरणादेवासत्त्वात् ।। वीतायां फलेच्छायामिति । तथाहि-फलेच्छया कर्मणि प्रवृत्तस्य यदि मध्ये फलेच्छा व्यपेयात् तथाप्यसौ शिष्टविगर्हणभयात् कर्म समापयति एवं वृष्टयर्थ च कारीर्या प्रस्तुतायां मध्ये वृष्टिसम्भवेऽपि तां समापयत्येव शिष्टविगर्हणभयादेव । किं त्वया ज्ञातमधुनैव हुंकृत्येति । हुंकृत्येत्यनेन शैवशास्त्रप्रसिद्धं दीक्षाविघानमन्त्रं सोत्प्रासं दर्शयति । ते हि विशिष्टमन्त्रोपपादितदीक्षासमनन्तरमेवाशेषपाशविमोचनाद् मुक्तिमभिमन्यन्ते ।। ज्ञानकर्मसमुच्चयात् । ज्ञानेन नित्यकर्मानुष्ठानेन च । मोक्षपथमुपदिशद्भिर्याज्ञिकैरिति । भद्रान् (भाट्टान् ?) परामृशति । १ उत्पद्यतामीदृशाभ्यासात् तत्त्वज्ञानम् । तथाप्यनादिना मिथ्याज्ञानसंस्कारेण मिथ्याज्ञानं जनयितव्यम् । तथा च तन्निमित्तस्य संसारस्यानुच्छेदप्रसङ्ग इति । सांतत्त्वकौ०६४ । ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः । न्यायसू०४.१.५९ । २ न्यायसू०४.१.६४ । ३ तुलनाअविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवे । कारणं लोभमोहौ तु दोषाणां तु निषेवणम् ॥ अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम् । तृष्णासजननं स्नेह एष तेषां पुनर्भवः ॥ महाभारत १२.२१८.३२-३३ । अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि सङ्घातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि ? यदुत अविद्या तृष्णा कर्म विज्ञानं च। तत्र विज्ञानं बीजस्वभावत्वेन हेतः । कर्म क्षेत्रस्वभावत्वेन हेतुः । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः । कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकायं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञान बीजमवकिरति । मध्यमकवृत्ति (प्रसन्नपदा) २६.१२ । तस्य निर्वतकमसाधारणकारणम् - अविद्यातृष्णे धर्माधमौ चेति । सम्यगध्यात्मविद्भिः प्रदर्शितार्थविपरीतज्ञानमविद्या सह संस्कारेणेति । पुनर्भवप्रार्थना तृष्णा । सुखदुःखयोरसाधारणौ हेतू धर्माधर्माविति । न्यायसार पृ०४४४ । ४ द्र. शाबरभा०६२.३.१३-१५ । ५ ग्रन्धिरयं मुदितमञ्जर्या नास्ति। ६ हतं ज्ञानं क्रियाहीन हता चाज्ञानिनां क्रिया। धावन् किलान्धको दग्धः पश्यन्नपि च पगुलः ।। तत्त्वार्थराजवार्तिके (१.१) उद्धृतः । २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy