SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ का पृ०८१, वि०पृ०५१२ ] न्यायमञ्जरीप्रन्थिभङ्गः २११ कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्' तत्र कथं ज्ञानमुत्पद्यत इत्याह-सुषुप्ते धीः प्रकल्प्यते । कथं प्रकल्यत इति चेत् तदाह-पश्चात् प्रत्यवमर्शनादिति । पश्चाभाविनः प्रत्यवमर्शात् स्मरणादित्यर्थः । ननु कथं चतुर्थी दशा नास्ति ? यावता तुर्यावस्थायाम् आत्मस्वरूपप्रतिपादिकां श्रुति पठन्ति "नान्तःप्रज्ञम्, न बहिःप्रज्ञम् , नोभयतःप्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम् , नाप्रज्ञम्, अदृष्टम् , अव्यवहार्यम् , अग्राह्यम् , अलक्षणम् , प्रपञ्चोपशमम् , शिवम् , अद्वैतम् , चतुर्थी मन्यन्ते, स आत्मा, स विज्ञेयः ।" इति ॥ [माण्डूक्योपनिषद्, ७] । [३०] तदाह-तुर्यावस्था विति । संवित्तिशून्यस्यात्मनो या स्थितिः सा तुर्यावस्था, न युष्मत्परिकल्पितेत्यर्थः। आगमस्त्वन्यपर इति । अन्ये त्ववस्थाचतुष्टयमेवं वर्णयन्ति-इन्द्रियमनोऽर्थसन्निकर्षेण व्यवहारो जाग्रत् । इन्द्रियदौर्बल्येन ग्राह्यार्थ प्रति मनसः स्मृतिमात्रशेषा बहिरप्रसृतेन्द्रियत्वेन च स्वप्नावस्था । ज्ञातुज्ञेयग्रहणासामध्ये मौढयेनावस्थानं सुषुप्तम् । अविलुप्तवेदनावृत्तित्वात् तिसृणामवस्थानां वेदनं तुर्यमिति । आगमं च पठन्ति १ तुलना---यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । माण्डूक्योप० ५। २ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्रह्मसु० ३.२.९. । योऽहम् अस्वासं स जागर्मि इति एकानुसन्धातृसूत्रनिबद्धत्वेन...... स्प०काविवृति १.३ । तथाहियदा विगलितसकलवेद्यविकल्पत्वात् निष्केवलां सुषुप्तावस्थां प्रबोधदशायाम् आत्मनः परामृशति तदा......। स्प०काविवृति २.१ । ३ तत्र जाग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा, यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते । स्प०काविवति १.३ । ४ स्वप्नः स्वापावस्था, यस्यां स्वव्यापारपरिश्रान्तः श्रोत्रादिविहारविरतावपि मनसैव असौ विषयान् परिगृह्णाति । स्प०का०विवृति १.३ । ५ सुषुप्तं गाढनिद्रारूपा सुखस्वापावस्था, मनोव्यापारस्यापि व्युपरमे सति यत्र व्यतिरितवेद्यसंवेदनं तात्कालिकं नास्ति । स्प०काविवृति १.३।६ तुलना-सर्वासु एतासु च अनुभवितृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता स्थितैव । स्प०का०विवृति १.४।...यत् एवंविशिष्टतया व्याख्यातं तत् वस्तु परमार्थतः अस्ति, सततम् अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् । स्प०काविवृति १.५ ।...तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ॥ स्प०का० २.१ । स्पन्दकारिकाविवृतिकाररामकण्ठाचार्येण जागराद्यवस्थानां योगदर्शनसम्मतधारणा-ध्यान-संप्रज्ञातसमाधि-असंप्रज्ञातसमाधिभ्यस्तुलना कृता । साऽ. त्रावतार्यते-"एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्यवस्थासु तस्य अभेदः प्रति. पादितो वेदितव्यः । तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अवस्थानात् । ताश्च संक्षेपतो लक्ष्यन्ते । तत्र ध्येयेऽर्थे चेतसा झगिति प्रवृत्तिमात्रं जागरावस्था, धारणा इति क्वचित्प्रसिद्धा । तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैकतानतानुसन्धानं स्वप्नावस्था, ध्यानमिति यामाहुः । क्रमेण ऐकाग्र्यातिशयात् प्रत्ययान्तरासङ्कीर्ण सूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था, यां वितर्कविचारानन्दास्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समाधेः आनन्दास्मितामात्रानुगतम् अवस्थाविशेषमाचक्षते । यस्तु 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः' पायो सू. १.७] इति कृतलक्षणः असंप्रज्ञातः समाधिः, तत् अपवेद्यसुषुप्तम् ।" स्प०का विवृति १.३ । माण्डू क्योपनिषदि.[३-७ भिन्नभणधा जागरादिअवस्थाचतुष्कस्य निरूपणमस्ति । द्र, लक्ष्मीसन्त्रम् २४.२६-३१, ४०.११-१२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy