SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०० भट्टश्रीचक्रधरप्रणीतः [ का पृ०४९, घिपृ०४७८ नान्येति' । यतोऽनन्यत्वमतो विषयदेशेऽपि तेषां भावात् तदाकारनिर्भासवृत्त्युदयः । ननु गोलके चिकित्सादिप्रयोगादित्यादि बौद्धः प्रत्यवतिष्ठते । प्रायश्चित्तमशुचिद्रव्यघ्राण इति । तथा च पठन्ति - अनृतं मद्यगन्धं च दिवामैथुनमेव च । भुनक्ति वृषलस्यान्नं बहिःसन्ध्याम्] उपासीत ॥ [शातातपस्य] इत्यादि [19] । दृष्टानुमितानामिति । एवं भवतेति यो नियोगः, एवं मा भूत इति च यः प्रतिषेधः, तयोरनुपपत्तिः । तत्त्वविषयत्वाद् यथाऽस्तिवस्तुविषयत्वात् ।। नियतगुणोत्कर्षयोगित्वादिति । नियतस्य गन्धादेर्गुणस्य पृथिव्यादीनां य उत्कर्षो भूयस्त्वम् । गन्धयुक्ति(क्त)द्रव्यवदिति । गन्धयुक्तद्रव्याणां कस्तूरिकादीनां गन्धविशेषार्थमुपादानम्, यस्मात् तेषामेव गन्धव्यञ्जकत्वम् , यथाहि क्षितिद्रव्यव्यक्तयः प्रत्येकं सामस्त्येन च गन्धाभिव्यक्त्यर्थमुपादीयन्ते नैवं जलादिव्यक्तय इति पृथिवीद्रव्यव्यक्तीनामेव गन्धाभिव्यञ्जकत्वम् । न च वाच्यं गन्धयुक्तद्रव्याणि गन्धविशेषस्योत्पादकानि नाभि १ तुलना–यदि च वृत्तिवृत्तिमतो नान्या भवति वृत्तिमतोऽवस्थानाद् वृत्तीनामवस्थानमिति युगपदनेकविज्ञानप्रसङ्गः। वृत्त्यनेकन्धे चैकमिन्द्रियमनेकं प्राप्नोति वृत्तिभ्योऽनन्यत्वात् । अथ मा भूदिन्द्रियभेद इति, वृत्तीनां तर्हि एकत्वं प्राप्नोति वृत्तिवृत्तिमतोरनन्यत्वात् । न्यायवा० पृ० ३७५-६।२ दिखनागः । अधिष्ठानाद बहिर्नाक्षं तञ्चिकित्सादियोगतः । सत्यपि च बहिर्भाव न शक्तिविषयेक्षणे ॥ प्र०समु० १. १८। तुलना-"यथोक्तं दिङ्नागेन-सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च । बहिर्वर्तित्वादिन्द्रियस्य उपपन्न सान्तरग्रहणमिति चेत्, अत उक्तम्अधिष्ठानात् बहिर्नाक्षम्, किन्तु 'अधिष्ठानदेश एवेन्द्रियम्' । कुतः ? तच्चिकित्सादियोगतः । सत्यपि च बहिर्भावे न शक्तिविषयेक्षणे । यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् । यदि च स्यात् , उन्मील्य निमीलितनयनोऽपि रूपं पश्येत्, उन्मीलनादस्ति बहिरिन्द्रियमिति । न्यायवा तात्प० १.१. ४ पृ०११८ । किञ्च, यदि प्राप्यकारि चक्षुः स्यात् सान्तराधिकाहणं न प्राप्नोति, न हीन्द्रियनिरन्तरे विषये गन्धादौ सान्तरग्रहण दृष्टम्. नाप्यधिकग्रहणम् । अथ मतम्-बहिरधिष्ठानाद् वृत्तिरिन्द्रियस्य, अत उपपन्नं सान्तराधिकग्रहणमिति, तदयुक्तम्, यस्माद् न बहिरधिष्ठानादिन्द्रियम्, तत्र चिकित्सादिदर्शनात् । अन्यथा अधिष्ठानपिधानेऽपि प्रहणप्रसङ्गः। मनसश्चा बहिर्भावात् । मनसाधिष्ठितं हीन्द्रिय स्वविषये व्याप्रियते । न च मनो बहिरधिष्ठानादस्ति । तदभावादग्रहणग्रसङ्गः । अनुवृत्तौ च सम्भवाभावाद् विप्रकीर्ण चक्षुरश्मिसमूह कथमणु मनोऽधिष्ठास्यति । तत्त्वार्थरा० १. १९ पृ० ६८ । द्र० श्लो० वा. प्रत्यक्ष ४५ । ३ अन्यत्र 'पुनाति' इति पाठः । ४ न्यायसू० ३. १. ५३ । ५ न्यायभा० ३. १. ५३ । ६ भूयस्त्वाद् गन्धवत्त्वाच्च पृथवी गन्धज्ञानप्रकृतिः । वैशे० सू० ८. १६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy