SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ का०पृ०४२, वि०पृ०४७१ ] न्यायमञ्जरीग्रन्थिभङ्गः विमर्शः। यूना यत् कृतमीश्वरसेवादि। स्वकृतफलभोगादिनियत इति' । स्वकृतानां कर्मणां यत् फलभोगादि तेन नियतो नियम्यमानोऽवश्यंभावी च कृतकर्मफलोपभोग[16] इत्यर्थः । चिरन्तनचार्वाकाचार्यवदिति । चिरन्तन्चार्वाकर्हि भाविविक्तप्रैभृतिभिः 'भूतेभ्यश्चैतन्यम्' इति सूत्रं भूतेभ्य इति पञ्चम्यन्तपदयोजनया व्याख्यातम् , भूतेभ्य उत्पद्यते चैतन्यमिति । उद्भटेन तु 'भूतेभ्यः' इति पदं. चतुर्थ्यन्ततया व्याख्यातम् , भूतेभ्यश्चैतन्यं भूतार्थ चैतन्यं स्वतन्त्रमेव शरीरारम्भकभूतोपकारकमित्यर्थः । स्मरणेच्छादिकार्ययोग इति । यथेहस्थितेन मया स्मरणेच्छादिकार्ययोगेनात्मास्तित्वं निश्चितम् एवं वाराणस्यामपि तस्य कार्यस्य दर्शनात् तत्राप्यात्मनो भावः कल्प्यः । अङ्गुष्ठमात्रपुरुषमिति । [सावित्र्युपाख्याने श्लोकस्य पूर्वमर्धम्-ततः सत्यवतः कायात् पाशबद्धं वशं गतम् ॥ इति।। [महाभारत ३.२८१.२६] शिरसा काष्ठभङ्गसञ्जातवेदनातिशयस्य सत्यवतः स्वाङ्के सुप्तस्य हृदयदेशादात्मानं निष्कर्षयन्तं यमं सा सावित्री सतीमाहात्म्याद् ददर्शेति । अत एवं परं सतीमाहात्म्येऽस्य तात्पर्यम् । कर्तृकरणव्यवस्थितीति। व्यापकस्य युगपत्सर्वविषयोपलब्धिप्रसङ्गे सूक्ष्मकरणापेक्षया तदा(द)भावो वक्तुं युज्यते । द्वयोस्तु सूक्ष्मत्वे कर्तृकरणव्यवस्थायां किं नियामकमिति। ननु सर्वत्र सुखदुःखज्ञानादीति । सर्वप्राणिनां सर्वत्र सुखदुःखादिकार्यमुपलभ्यते तत्र सर्वव्यापी कल्प्यः, तेन च कल्पितेनैकेनैव कार्यसिद्धेः, नानात्वकल्पनायां किं प्रमाणमिति। कल्पयितुं युक्तमतिप्रसङ्गादिति । दृष्टे हेतौ सम्भवति, अदृष्टकल्पनायां हि सर्वत्रैवंप्रसङ्ग इति । मुखदुःखमीदृशमिति । यादृशमभिनवजीवलोकावलोकनादिजमुक्तम् । कार्यत्वहानिप्रसङ्गादिति । कार्य तदुच्यते यत् केनापि क्रियत इति । अनन्तरमेव निरस्तत्वादिति । अयस्यपि क्रियायाः सनिमित्तत्वं कार्यस्य, निर्हेतुकवे कार्यवहानिप्रसङ्गादिति । १ मुद्रितमञ्जयां तु 'भोगादिनिपुण' इति पाठः । २ तत्त्वसङ्ग्रहपञ्जिकायां भाविविक्तस्य नामत उल्लेखोऽस्ति । तत्र स नैयायिकमतावलम्बी प्रतिभाति । अतो विद्वद्वरभट्टाचार्येण स उद्योतकरपूर्ववर्ती नैयायिकः इति निर्णयः कृतः । किन्तु चक्रधरः तं चाकसूत्रव्याख्याकृच्चिरन्तनचार्वाकं मन्यते । ३ तुलना .. .. ...विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञा अस्तीति । बृहदा० उप० २. ४.१२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy