SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८८ भट्टश्रीचक्रधरप्रणीतः [का०पृ०१६, वि०पृ०४४३ बुद्धिरनुमेयज्ञानस्यालम्बनकारणतां' प्रतिपद्यते; उपाध्यायज्ञानस्य च शिष्यज्ञानोत्पत्तौ कारणत्वदर्शनात् । न तादृशकार्यकारणभावेनेति। अत्र सहकारित्वेनोपाध्यायादिज्ञानं जनकं नोपादानत्वेनेति भावः ।। तत्सन्तानोपसक्रान्त्येति । व्यवस्थितायां सन्ततौ विज्ञाने आहिता कर्मवासना कर्मजनितः संस्कारः, सा पुनः कालान्तरे सहकारिसन्निधानाद् लब्धपरिपाकवती तत्रैव सन्ताने फलं समुत्पादयति, न सन्तानान्तरे । यथा कस्याञ्चित् कर्पाससन्ततौ बीजावस्थायामाहिता रक्तता मध्ये विच्छिन्नापि कुतश्चिद्देशकालाद्यनुग्रहात् तत्कुसुमेऽऽविर्भवति, नान्यत्र । एवं हेतुफलभावेन व्यवस्थितेषु [क्ष]णेषु येन ज्ञानेनानुभूतं वस्तु तेनोत्तरज्ञाने शक्तिराहिता; तेनाप्यन्यत्र यावत् प्रणिधानादिवशात् प्रबोधे सति स्मृतिर्भवति तत्रैव, न सन्तानान्तरे । पूर्वानुभवजनितो हि संस्कारः संस्कारान्तरजननद्वारेण स्मृतिजनकं क्षणमुपस्कारसहितं जनयति तत्रैव सन्ताने [ इति ] वाचोयुक्तिः । १ चत्वारः प्रत्यया उक्काः हेत्वाख्याः पञ्च हेतवः ॥ चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः। आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः ॥ अभि-को. २.६१-६२। कारणहेतुव ाः पञ्च हेतवो हेतुप्रत्ययः । समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः ।......यथायोग चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् (आलम्बनम् )। .. ...य एव कारणहेतुः स एवाधिपतिप्रत्ययः । अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्ययः । अभि०को भा० २. ६१-६२ । २. नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् । यथाक्षेपं क्रमाद् वृद्धः सन्तानः क्लेशकर्मभिः । परलोकं पुनर्याति इत्यनादिभवचक्रकम् ॥ अभि को. ३. १८-१९ । तस्माद् यथा बीजादिषु आत्मानमन्तरेणा । प्रतिनियमेन कार्य तदुत्पत्तिश्च क्रमेण भवति, तथा प्रकृतेऽपि परलोकगामिनमेकं विनापि कार्यकारणभावस्य नियामकत्वात् प्रतिनियतमेव फलम्, क्लेशकर्माभिसंस्कृतस्य सन्तानस्य अविच्छेदेन प्रवर्तनात् परलोके फलप्रतिलम्भोऽभिधीयते, इति नाकृताभ्यागमो न कृतविप्रणाशो बाधकम् । ततो नात्मा. नमन्तरेण कर्मफलसम्बन्धो न युज्यते । बोधिचर्या०पं० पृ. २२३ । न हीह लोके कार्यकारणभावः स्मृतौ हेतुत्वेनोपन्यस्तः प्रतीयते । कि तर्हि ? कर्मवासना। वासना हि कर्मणाभिसंस्कारः । वासितं हि अभिसंस्कृतमुच्यते । कर्मकृतो विशेषो यत्र सन्ताने उत्पादितस्तत्रैव भोगादिफलसम्बन्धः, नान्यत्र । यत्र नासौ विशेषः इति प्रतिज्ञाय कपासे रक्तता यथा इति वदतः संस्कारसन्तानभेदो वा हेतुरभिप्रेतः, साध्यं चान्यत्र भोगादिफलनिषेधः, तत्सन्ताने तत्फलयोग्यता च प्रतीयते । ...स्मृत्यादिफलापेक्षयाऽप्ययमेव न्यायः । यदि सन्तानद्वारेणेयं व्यवस्था, तदा विद्यायोनिसम्बन्धप्रसिद्धेऽपि सन्ताने प्रसङ्गः । ततो गुरुणानुभूतादौ शिष्यस्य स्मृत्यादिः स्यात्, एवं पितुरनुभवादौ पुत्रस्य भवेत् । नैतादृशः सन्तानोऽत्र विवक्षितः उपादानोपादेयभूतहेतुफलपरम्परारूपः । कि पुनरुपादानोपादेयलक्षणम् ? एकाधारतानियमोऽसति विचारकारणे, विचारेऽपि तद्योग्यतानियमः । शानश्री. पृ. ७२-३ । द्र० पृ. ७१ । द्र० तत्वसं पं. पृ० १६६-१८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy