SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भश्रीचक्रधरप्रणीतः [कापृ०११, वि०पृ०४३० आहारपरिणामाच्चेति । आहारो हि तदा परिणतो भवति यदा पुष्टिरुत्पद्यते, पुष्टिश्चोपचयः, स चापचयनिरोधेन भवति । अपचयोपचयनिरोधोत्पत्तिभ्यां चापचीयमानोपचीयमाननिरोधोत्पत्ती । ते च पाक[जोत्पत्तिन्यायेने । न जीर्यतान्नमन्यथा, अपरिणतं स्यात् । न भवेत् परिपोषः विनाशानभ्युपगमे । सर्वस्मिन्नेव हि शरीर विनष्ट आरम्भकाणां अवयवानामाहारभूतदध्यादिसारावयवसहितानामारम्भकत्वे स्थूलशरीरनिष्पत्तौ पुष्ट्यर्थानां दध्यादीनामुपयोगस्य साफल्यम् । शरीरस्य 'प्राक्तनस्याविनाशे[ऽप]चयाभावाद् आहाराभावकृता रिक्तताऽपि न भवेत् । अनुप्रवेशपक्षेऽपीति । तेजःपरमाणवो ह्यविनष्टेऽपि घटे प्रविशन्तीति पि[3]र पाकवादिनां मतम् । अमुष्य कार्यस्य प्रसव इति । अप्रयोजनं तु कार्यमिदमस्ति किं कारणविकल्पैरित्यनेन न्यायेन । तथा च वैशेषिकै नाप्रक्रियाः प्रदर्शिता एव । श्यामादिनिवर्तके वह्नौ क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानता, तदवयवे क्रियाया उत्पद्यमानता, रक्ताद्युत्पादके च वह्नौ क्रियाया [6] उत्पद्यमानतेत्येषामेकः कालः । तदनन्तरं श्यामादिनिवर्तके वह्नौ प्राक्तनाकाशदेशेन विभागस्योत्पादः, संयोगस्य विनश्यत्ता, तदव[य]वे क्रियाया उत्पादः, अवयवान्तराद् विभागस्योत्पद्यमानता, रक्ताधुत्पादके वह्नौ क्रियाया उत्पादः, प्राक्तनाकाशदेशेन विभागस्योत्पद्यमानतेत्येषामेकः काल इत्याद्यास्तत एवावसेयाः । उपजनापाययोः कार्याधुपजनापाययोर्निमित्तान्तरानुपयोगादिति । चैतन्यगुरुलाघवेति । गुरुलाघवव्यवहारस्तीत्रमन्दताव्यवहारः । १ यच्च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाधुपरमो दृष्टः एवं चेतनोपरमः स्यादिति । न, पाकजगुणान्तरोत्पत्तेः । नात्यन्तं रूपोपरमो द्रव्यस्य, श्यामरूपे निवृत्ते पाक गुणान्तरं रक्तं रूपमुत्पद्यते, शरीरे तु चेतनामात्रोपरमोऽत्यन्तम् इति ॥ न्यायभा० ३. २. ४८ । २. मुद्रितमजयों तु 'काञ्चनाद्युपयोगेन' इति पाठः। ३ पूर्वघटस्य नाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु च युगपद् रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः । तर्कदीपिका पृ०१७ ॥ ४ प्रक्रिया तु द्वयणुकस्य विनाशः, त्र्यणुकस्य विनश्यत्ता, श्यामादीनां विनश्यत्ता, सक्रिये परमाणौ विभागजविभागस्योत्पद्यमानता, रक्तायुत्पादकस्याग्निसंयोगस्योत्पद्यमानतेत्येकः कालः । ततस्त्र्यणुकविनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, विभागजविभागस्योत्पादः, संयोगस्य विनश्यत्ता, रक्तायुत्पादकाग्निसंयोगोत्पादः, रक्तादीनामुत्पद्यमानता, श्यामादिनिवर्तकाग्निसंयोगस्य विनश्यत्तेत्येकः कालः । ततस्तत्कार्यविनाशः.......... न्यायकं० पृ० २६५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy