SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७४ भट्टश्रीचक्रधरप्रणीतः [का०पृ०३८२, वि०पृ०४१५ न तूभौ दण्डशब्देनैवेति । स च विधिरूपोऽर्थः स्वरूपत इति । विधिशब्देन तैः श्रेषः प्रतिपादितः, तत्र विधिनिमन्त्रणामन्त्रणाधीष्टेष्वपि चतुर्वपि प्रेरणारूपस्यानुगमात् कथं निश्चीयेत अयं प्रैषः, इदं निमन्त्रणम् ? इत्यादि । अथोपाधिभेदात् तेषां भेदो व्यवस्थाप्यते । ते च समहीनज्यायोमनुष्यप्रतिपादकपदविशेषा उपाधयः, तद्वशादयं प्रैषे लिङादिर्व्यवस्थाप्यते इति । यदि चैवं तेषामों व्यवस्थाप्यते तवं व्यवस्थाप्यमानो योऽर्थः पदान्तरसन्निधानवशात् स तेषामर्थो न भवति । यथा 'अश्वमानय गमिष्यामस्तेन' इति पदान्तरयोगाद् योऽश्वार्थों लब्धः स यथा अश्वशब्दार्थो न भवति तद्वदिति । यदेकस्यां क्रियायां कारकमिति । न हि गमेः कार्ता(कर्ता !) पचतीत्यत्र प्रतीयते । क्रियया सर्वकारकाण्यभिप्रेयन्ते सम्बध्यन्ते । न चोपाध्यायेति । क्रियया यदभिप्रायणं सम्बन्ध उपाध्यायस्य तत्रासौ न व्याप्रियते । अथासौ प्रतिगृह्णा[175B]त्येतदेवास्य व्यापृतत्वम्, नेत्याह ... प्रतिग्रहस्त्विति । तत्र चोक्तम् । नान्यत्र क्रियायां कारकमन्यत्र भवति, अतिप्रसङ्गादिति । क्रियया चाभिर्य(य ?)माणमिति । सूत्रे हि कर्मणा [ददा]तिकर्मणः क्रियायाः करणत्वेन निर्देशाद् 'यम्' इति च द्वितीयया ईप्सिततमस्य कर्मणो निर्देशात् फलं कर्म भवति कारकं यजेरिव स्वर्ग इत्यर्थः । परस्परापेक्षया पुनः स्वरूपसायमिति । स्थाल्यां पचतीति अनासत्यपि कळधारत्वेऽधिकरणत्वम् कटे आस्त इत्यत्र चासति कर्माधारत्वे इति । यदि कत्रधिकरप्पत्वं लक्षणमाश्रीयते तदा स्थाल्यां पचतीत्यत्रासत्यपि प्राप्तं कर्माधिकरणत्वमप्याश्रयणीयम्, कर्माधिकरणत्वे लक्षणे कट आस्त इत्यत्रासङ्ग्रहात् कत्र(त्र)धिकरणत्वमप्यपेक्षणीयमिति श(स)ङ्करः । कारकं च क्रिययाऽऽस्तुमिष्टतममिति । तथाभूतस्य सम्प्रदानावसरे फललेनः प्रतिपादनात् । ननु निमित्तपर्यायः कारकशब्दः कारकसूत्रे व्याख्यातः, निमित्तत्वं च साध्यत्वस्यापि कथञ्चित् सम्भवत्येवेति, न, इत्याह-कारकव्यपदेशो हीति । कारकग्रामस्य परस्परापेक्षत्वादिति । यस्य हि येन विनापि व्यापारनिर्घत्ति[176A]न तेन तदपेक्ष(क्ष्य)ते । १ द्र० पा० ३.३.१६१, १६३ ।२ 'कर्मणा यममिप्रैति स सम्प्रदानम्' [पा० १. ४. ३२] इति सूत्रे । ३ 'कारके' [पा. १. ४. २३] इति सूत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy