SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७२ भट्टश्रीचक्रधरप्रणीतः [का०पृ०३८१, वि०पृ०४१३ दृष्ट इति' । क्लेशेन समा[ से]ति । दुरुपपादः समास एव तावदत्र क्लेशेन कल्प्यः , तस्मिंश्च कल्पिते समाससंज्ञया गुणवचनसंज्ञाबाधो बलादायातीति । तथाहि यद्यन्य[भावः ] भवतीति । भावश्च अन्यभाव इति एवं समासः क्रियते तद्वास्तवगुणवचनत्वाभावाद् ब्राह्मणादिगणापाठाच्चास्य ष्योऽनुत्पत्तिः भवनं भावे[173B]नेत्युक्तम्अविश्च अविकश्चेति द्वन्द्व समासे सुपो लुक्प्राप्तः । अन्यथाकृत्वा चोदतमिति । तत्र तत्र प्रदेशे चोद्यानुगुणं परिहारमपश्यन् भाष्यकारो 'अन्यथाकारं चोदितमन्यथाकारं परिहारः' इति वक्तव्ये “अन्यथा कृत्वा चोदितमन्था कृत्वा परिहारः" [ महाभाष्य १. १. २. २.] इति ब्रवीति । “अन्यथैवंकथमित्थं पु सिद्धाप्रयोगश्चेत्" [ पा० ३. ४. २७ ] इत्यनेन हि सूत्रेणात्र णमूल प्राप्नोति । गतार्थत्वात् प्रयोगानर्दोऽपि यः प्रयुज्यते स सिद्धाप्रयोगस्तादृशश्चात्र करोतिर्यावदेवोक्तं भवति अन्यथा चोद्यमन्यथा परिहार इति भा(ता)वदेवोक्तं भवति अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः इति । [ ज्ञातारः इति] 'ज्ञातारः सन्ति मम' इति वाच्ये 'ज्ञातारः सन्ति मे ' इत्युक्तम् । 'अक्षिणी अक्त्वा' इति च वाच्ये 'अज्य' इत्युक्तम् । 'अभिघ्राणम्' इति वक्तव्ये 'अभिजिघ्राणम्' इत्याह । 'यदन्तरं सिंह-शृगालयोर्वने तदन्तरं तव च राघवस्य च' इति वाच्ये छन्दोवशात् 'तुभ्यं च राघवस्य च' इत्यभ्यधात् । 'जन्मनि' इति प्रयोक्तव्ये 'जन्मे' इत्युक्तम् । “अन्तो १ "आन्यभाव्यं त्वकारस्य । कुतः ? कालशब्दव्यवायात् । कालव्यवायाच्छब्दव्यवायाच्च । कालव्यवायात्-दण्ड अग्रम् । शब्दव्यवायात्-दण्डः । न चैकस्यात्मनो व्यवायेन भवितव्यम् ।" महाभाष्य १.१. २. १। इह कालशब्दाभ्यां व्यवधानं भिन्नानां दृष्टम् । यथाऽसंहितायाम् अ इ उ इत्यादीनां कालव्यवायः, दृतिरित्यादौ शब्दव्यवायः । तत्र तकारेण ऋकारेकारयोर्व्यवधानात् । एकत्वे तु व्यवधानं न दृष्ट यथा अ इति केवलाकार उच्चार्यते, तस्मादुदात्तादिगुणभेदात् कालशब्दव्यवायाच्च नानात्वमकारस्य । महाभाष्यप्रदीप १. १. २.१ । २ ग्रन्थिरयं मुद्रितमञ्जयां नास्ति । ३ अत्र क्लेशेन समासं कल्पयित्वा ततः समाससंज्ञया गुणवचनसंज्ञायां बाधितायां 'गुणवचनब्राह्मणादिभ्यः' [ पा. ५. १. १२४ ] इति लक्षणेनासंसृष्ट एव ष्यप्रयुक्तः भाष्येऽप्यविरविकन्या. येनेति द्वन्द्वगर्भे तत्पुरुषे पूर्वसमासपूर्वपदस्थायाः सुपः 'सुपो धातुप्रातिपदिकयोः' [पा०२.४.७१] इति प्रत्यक्षोपदिष्टोऽपि लुक न कृतः । तन्त्रवा० प्र० २६०। ४ 'अन्यथैवं कथम्' इत्यन्वाख्यातसाधुत्वोऽपि णमुल न प्रयुक्तः । तन्त्रवा० पृ० २६०। ५ तथा मनुनाऽपि 'ज्ञातारः सन्ति मेत्युक्त्वा' इत्यत्र 'सन्ति मे इत्युक्त्वा' इति वक्तव्ये व्याकरणमनपेक्ष्यैव संहिता कृता। तन्त्रवा० १.३. ८. २४. (पृ० २५९)। ६ आज्येनाक्षिणी आज्य इत्यसमासेऽपि प्रयुक्तः । तन्त्रवा० प्र २५९। ७ गृह्यकारेण मूर्धन्यभिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये जिघ्रादेशः प्रयुक्तः । तन्त्रवा० पृ०२५९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy