SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ का०पृ०३४०, वि०पृ०३७० ] न्यायमञ्जरीग्रन्थिभङ्गः १५९ किमप्यभ्यधिकमिति । वर्णस्वरूपातिरिक्तश्चेदपेक्ष्यते स एव तर्हि स्फोटः, सर्वथा स्वरूपमात्रस्यावाचकत्वमायातमिति मत्पक्षाभ्युपगमः । - कार्यानुमानमिदमस्त्विति । अर्थप्रतिपत्तिलक्षणात् तावत् कार्यमात्रात् तत्कारणमात्रावगमः; तत्र कारणमात्रस्य निर्विशेषस्य गोत्वस्येव शाबलेयादिविशेषशून्यस्यासम्भवात् , वर्णानां च पूर्वनीत्या कारणत्वप्रतिषेधादन्यत्र चाप्रसङ्गात् स्फोटस्यैव कारणत्वकल्पनेति कारणमात्रावगतौ कार्यानुमानम् । कारणविशेषावगमे तु परिशेषानुमानमिति । [अर्थापत्तिर्वति] एवंरूपं च परिशेषानुमानं' कार्यानुमानसहितमपत्तितयाऽन्यैर[156B]भिहितं तन्नाम्नो वाऽस्याभिधाने न काचित् क्षतिरिति । वर्णपक्षक्षपणक्षमेति । किमेकैकः प्रत्यायकोऽथ संहता इत्यादि यदूषणम् । प्रातिपदिकार्थोंऽप्युपपन्नः, संस्कारस्य शब्दशब्दवाच्यत्वाभावात् ; विभक्त्यर्थस्त्वेकत्वमेकत्वादुपपद्यते संस्कारस्येति । शब्दकार्यनिर्वर्तनानुपपत्तेः । शब्द्यते कथ्यतेऽनेनार्थ इति शब्दशब्दनिर्वचनसामर्थ्यादर्थप्रतीतिजनक एव शब्दः । अथ गौरित्यत्र श्रौत्रे प्रतिभास इति । भाष्यकृता हि ‘अथ गौरित्यत्र कः शब्दः' [शाबरभा० १.१.५]इत्युक्तम् । अस्य चार्थः – गौरिति अत्र ज्ञाने ये प्रतिभासन्ते जातिगुणक्रियावर्णस्फोटादयोऽर्थास्तेषु मध्ये कः शब्द इति । गौरिति ज्ञाने वर्णाः, वर्णाभिव्यङ्ग्यस्फोटः, तद्वाच्यश्चार्थो जात्यादिः, तदेकार्थसमवेताश्च गुणक्रियादयः प्रतिभासन्त एवेति । ___ संस्कारकल्पनायामदृष्टकल्पनेति । बहुभिनैिरेकस्य प्रसिद्धस्मरणरूपकार्यपरिहा[157Ajरेणार्थप्रतिपत्तिजनकस्य जननं संस्कारस्येति कल्पना । सा च शब्दकल्पना चेति । सा च संस्कारकल्पना च, तथाविधसंस्कारकल्पनां विना क्रममाविभिर्वर्णैः स्फोटस्याभिव्यक्तुमशकयत्वात् । शब्दस्य च निरवयवस्यैकस्याक्रमस्यानुपलभ्यमानस्य कल्पना । . अपरे तु वदन्तीत्यादिना वर्णा एव पारमार्थिका न सन्ति, कुतस्तेषां क्रमेण सामस्त्येन वा स्फोटाभिव्यक्तौ व्यापारः । ननु ध्वनयोऽपि स्फोटस्य ध्वननात् प्रका १ शेषवन्नाम परिशेषः, स च प्रसक्तप्रतिषेधेऽन्यत्राऽप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः... ... । न्यायभा० १.१.५ । २ शाबरभा० १.१.५.पृ०४८ । ३ शाबरभा०१.१.५. पृ०४८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy