SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ का०पृ०३२७, वि०पृ०३५६] न्यायमञ्जरीग्रन्थिभङ्गः आश्रयितव्यः; तत्र प्रयुक्तिपर्यन्ते नियोगव्यापारे सति क्रमस्यावसरात् । उपादानात्मना व्यापारेण क्रमस्याक्षेपस्तावन्नास्ति, न च क्रमं विना गतिरस्ति । तत्राध्वर्युगुहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीत्यादौ कः क्रम आश्रीयतामिति चिन्तायां प्रयोग आशुभावाद् यस्य कस्यचित् क्रमस्यानियमेनाश्रयणे प्राप्ते श्रुत्यर्थपाठादिप्रमाणषट्कावगम्यमानक्रमपरित्यागे कारणाभावादुपादानात्मकव्यापाराभावेऽप्यवगम्यमानं श्रुत्वादिभिः क्रमं न परित्यजति नियोगः” इति चिन्तितम् । षष्ठे तु क्रमपर्यन्ते शास्त्रार्थे स्थिते सति कस्तस्यानुष्ठातेति स्थाप्यते । तथा ह्यवगतेऽपि क्रमपर्यन्ते विषये शास्त्रान्नियोगोऽनुष्ठातारं विनाऽनवगततुल्य इति स्वर्गकामो यजेतेत्यादौ स्वर्गकामादिपदानि [150B] कर्तृतया समन्वयादवच्छिद्याधिकारितया समनुयन्ति नियोगेन स्वरूपसिद्धयर्थमात्मन इत्येवं नियोगस्य रूपं चिन्तितम् । अयं तावदुपदेशषट्कः, अतिदेशषट्क इदानी चिन्त्यते । तत्र सप्तमे सामान्यातिदेशलक्षणे “ये यस्य नियोगस्य प्रकरणे धर्माः श्रुतास्ते तस्यैव, अपूर्वप्रयुक्तत्वाद् धर्माणाम् । अतः ‘ऐन्द्राग्नमेकादशकपालं निर्वपेद् ब्रह्मवर्चसकामः' इत्यादीनामैन्द्राग्नप्रभृतीनामौपदेशिकी धर्मप्राप्तिनास्ति, तत् किं तेषामधर्माः कर्तव्याः ? अथाधर्मका एव त इति विचार्योपकारापेक्षी नियोगस्तत्रापि प्रकृतिवद् धर्मानाक्षिपति" इति नियोगवृत्तं चिन्तितम् । अष्टमे तु विशेषातिदेशे के धर्माः कस्य कर्तव्या इति विचारः । तथाहि तेजस्वितासामान्यादाग्नेयधर्मानाक्षिपति सौर्यचरुनियोगः, न दधिपयआदिधर्मानिति नियोगरूपं चिन्तितं तत्र । नवमे तूहलक्षणे कथं ते धर्माः प्रयोक्तव्याः, किं यथाश्रुता यथा(थो)पकारा वे]ति तत्रोपकारद्वारेण धर्माणामाक्षेपाद् यथोपकर्तुं शक्नुवन्ति तथा प्रयोज्या यथा 'अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रः सूर्याय [151A] .................. ....न्वयोऽन्यथा न भवतीति चेद् यथा 'द्रव्यगुणसंस्कारेषु बादरिः' मी० सू० ३.१.३] इत्येतद्व्याख्यानावसरे क्रियावाक्यार्थपक्षे समन्वयः प्रतिपादितस्तथा भविध्यति, तदाह-अन्यथा व्याख्यायतामिति । नन्वधिकारिपदमेतत् कथमन्यथा व्याख्याने नियोगस्याधिकारानुबन्धापेक्षिणो निर्वाह इत्याह-अधिकारानुबन्धाभिधान इति । निर्विशेषणः पुरुषोऽधिकारी न भवति, प्रागुक्तनीत्या तु स्वर्गेच्छा कथमपि पुरुषं विशेक्ष्यति इति भवति स्वर्गस्याफलत्वेऽप्यधिकारानुबन्धलाभ इति । ___ आक्षेपकत्वात् तु तस्येति । यः स्वर्गकामः स कथं स्वर्गसिद्धिमपश्यन् प्रवतेतेति नियोगः फलमाक्षिपति । कुत एतल्लभ्यत इति चेत् तदाह--प्रयोक्तृत्वं १ पत्र १५१ब-१५२अ गतान्यक्षराण्यवाच्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy