SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [ का० पृ०३२४० वि० पृ० ३५४ प्रतीयन्तेऽर्थे[तो ह्य]समर्थानामानन्तर्येऽप्यसम्बन्धस्तस्माच्छ्रत्येकदेशः सः” इति सूत्रम् [मी०सू०४.३.११]। अपि वेति पक्षव्यावृत्तिः, अर्थेन प्रयोगद (वि.) धानेन 'विश्व - जिता यजेत' इत्यादिना फलचोदना गम्येत । कुतः ! प्रयोगवचनस्याssम्नानसामर्थ्यात् । फलचोदनां (नं) फलवचनं विना तस्याऽऽम्नानं निरर्थकं स्यात् । ननु श्रूय. माणस्याभावाद् अध्याहार्यं तत्ः नेत्याह - " अर्थानां प्रयोगवचनानाम् अर्थवत्त्वेन हेतुना व्यवहितान्यपि प्रतीयन्ते सम्बध्यन्ते फलवचनानि । अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धः । १५० अपि (इतः ) पश्यामि ( श्यसि ) धावन्तं दूरे पा ( जा ) तं वनस्पतिम् । [147A] ब्रवीमि विशालाक्षि याहि रक्ष ( या पिनक्षि ) जरद्रवम् ।।' इतिवत् || तस्माच्छ्रुत्येकदेश एव फलवचनशब्दो व्यवहितश्रुतोऽपीह सम्बध्यते । 'वसन्ताय कपिञ्जलान्' [मै० सं०३.१४.१] इत्यत्र 'आलभेत' इतिवत् । तदियमधिकारानुबन्धे । प्रे विना विधेः प्रेरकत्वासिद्धेर्बहिः सिद्धेश्चानुष्ठातारमधिकारिणं विना असम्भवात्, अधिकारिणमेव प्रथमं विधिरपेक्षते, न फलम्; फलं विनापि नित्याधिकारे यावज़ोवादौ विधेराकाङ्क्षानिवृत्तेर्बहिः सिद्धेर्लाभाच्च । तदनुप्रवेशेनेति । किंविषयं नियोगं कुर्यादिति तद्विषया (यम) वच्छेदकं कुर्वन् । तदपि न सिद्धमिति । न हि सिद्धफलमुद्दिश्य कश्चित् प्रवर्तते यच्चोद्दिश्य प्रवर्तते तत् प्रधानं साध्यं चेत् तर्हि तत्साध्यता नियोगाधीना; स्वर्गकामस्य हि नियोगः स्वर्गस्य हि साध्यतामनापादयन्नननुष्ठेय एव स्यादिति । चतुरवस्थ उच्यते । चतसृष्ववस्थास्वेकतया प्रत्यभिज्ञानात् । यथा ग्रामं गच्छेदश्वेन गच्छेद्धनकामो गच्छेत् तस्माद् एवं गच्छेदिति न भिन्ना विधयः प्रतीयन्तेऽपि तु एक एव । अधिकारविधेरे [147B]त्र व्यापारविशेष इति । यत एवंभूतेन यजिनैवमितिकर्तव्यताकेन चैतत् फलं जन्यतेऽतः तत्फलका [मे ] नाऽयं मया एवमनुष्ठेयम् इत्यधि - * कारविधेरव परिस्पन्दः । इत्थंरूपः प्रयोगविधि रित्युच्यते । एतस्यैव रेवतीवति । एतद्ध्यपूर्वं कर्म चोद्यते, वचनान्तरेण तस्याप्रति १ ६० शाबरभा०हु प० ४.३.५ ( पृ० १२५४) । २. कर्म अन्य फलस्वाम्यवबोधको विधिरधिकारविधिः । अर्थसं० पृ० ७२ । ३ अत एवाङ्गानां कमबोधको विधिः प्रयोगविधिरित्यपिलक्षणम् । तत्र क्रमो नाम विततिविशेषः, पौर्वापर्यंरूपो वा । अर्थसं० पृ०५७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy