________________
का पृ०३२१ वि०पृ०३५०]
न्यायमञ्जरीग्रन्थिमनः
१४७
सम-हीन-ज्याय इति । यत्र समः प्रेर्यते तत्राभ्यनुज्ञाः यत्र हीनः तत्र प्रेषणम्, यत्र ज्यायांस्तत्राध्येषणमिति । विधिशब्दनिर्दिष्टं प्रेषणं हीनविषयम्, निमन्त्रणादयस्तु यथासम्भवं सम-ज्यायोविषयाः न्य[143 ]कारपूर्वं तेष्वप्रवर्तनादिति ।
प्रवृत्तक्रियाविषय इति । प्रवृत्तक्रियः सम्भावितक्रियो वा यत्र प्रयुज्यते तत्र णिचः प्रयोगः, यत्र तु क्रियासम्बन्धोऽभूतपूर्व एव ज्ञाप्यते अकारकस्यापि कर्तृतासम्बन्धोऽवबोध्यते तत्र लोट् । यदुक्तम्
द्रव्यमात्रस्य तु प्रेषे पृच्छयादेर्लोड विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः॥ इति ॥[वाक्यप० ३.७.१२६]
'पृच्छतु मा भवान्' इत्यादौ यो लोट् स द्रव्यमात्रस्याकर्तुरपि प्रैषे कर्तृत्वज्ञापने सक्रियस्य प्रवृत्तक्रियस्य सम्भावितक्रियस्य चेत्यर्थः ।
प्रवर्तितस्य स्वकार्यदर्शन मिति । विधिरपुरुषार्थे न प्रवर्तयति, प्रवर्तनाव्याघातात् , प्रवर्तितश्चेद विधिनाऽवश्यं साध्येन फलेन भाव्यमिति ।
न हि यजमान एव, यागक्रियायां प्रवर्तित एव । कस्मिंश्चिदात्माकूते 'उपादेयमेतन्मया' इत्येवंरूपे ।
ननु कुर्यादित्यत्र यः प्रतिभाति स नियोगः इत्युक्तं तत्कोऽसौ प्रतिभाति ? इति वक्तव्यमित्याशङ्क्याह-कुर्यादित्यस्यार्थ इति । अनेनैतत् प्रतिपादयति लोके वेदे वा नियोगः शब्दोल्लेखरहितायां प्रतीतौ न प्रथत इति ।
य[144A]था तु यजेतेत्यादिभ्य इति । तेभ्यो युद्भवदवस्थः प्रेरणारूपः कार्यरूपो वा नियोगः प्रतीयते नियोगशब्दात् तु स्वरूपमात्रेण ।
व्यवहारमात्रमेतदिति । गुरोनियोगस्त्वया कार्य इत्यादाववश्यव्यवहतव्यस्य नियोगस्य केनचिच्छब्देन नियोगादिना सूचनं व्यवहारमात्रम् ।
स एव च धर्मः श्रेयस्करस्य धर्मत्वात् , तदनुष्ठानाच्च श्रेयोऽवाप्तेः । सुखैधितः। सुखेन वृद्धि प्राप्तोऽकृतगुरूपासनादिक्लेशः । प्रेरणाभिमायेणेति' । यदा राजाज्ञया प्रेरितः करोमीति विवक्षा तदा तृतीयाप्रयोगः करणं तु तस्या एव, तात्पर्यतः पुरुषस्य तत्र प्रवृत्तेः ।
अनुबन्धद्वयावच्छिन्न इति । अनुबध्यतेऽन्यतोऽवच्छिद्य स्वात्मन्येव व्यवस्थितः प्रतीति प्राप्यते येनासौ विषयानुबन्धः; येन वाऽनुष्ठात्रन्तरावच्छेदेन नियतानुष्ठातृकत्वेनावस्थाप्यतेऽसौ विध्यनुबन्धोऽधिकारानुबन्धः ।
१ मुद्रितन्यायमजा तु 'प्रेषण'' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org