SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ भट्टीकरप्रणीत: [ का०कृ०२९७, वि० पृ०३२५ यथा विध्यन्तपर्यन्त इति । वाक्येन हि नियोगः प्रति [ 133B].... दूख्यवस्थितं सकलं विध्यन्तमाक्षिपति स्वसिद्धये इति तावति वाक्यानुपरतव्यापारे शब्दे तत्प्रतीतेः । न हि व्यक्त्यनपेक्षाणामिति । गुणव्यक्तेर्निराश्रयाया अनुपलम्भात् सा द्रव्यान्विता, एवं द्रव्यस्य निर्गुणस्या [नुपलम्भाद् गुणान्वित] द्रव्यप्रतिपत्तिरिति । द्रव्यगुणादीनां साकाङ्क्षत्वात् परस्परान्वितार्थप्रतिपादनं तच्छब्दैस्तद् [द्]वारेण च जातीनामप्यन्वयः । व्यक्तीनां हि शब्द [त् न साक्षात् ] प्रतिपत्तिरपि तु जात्यवगत्या; जातीनां चानन्वये तदाक्षिप्तव्यक्त्यन्वयः कथं स्यादित्येवं शब्दाज्जातेर्जात्यन्तरान्विताया....। प्रयोगप्रतिपत्तिभ्यामिति । तद्वत्येव शब्द प्रयुञ्जते तमेव च प्रतिपद्यन्त इति । तत्सन्निवेशचिकीर्षयेति । गोव्यक्तेर्यः [ सन्निवेशः स प्राधान्येन ] विवक्षितः गोव्यक्तिस्तु सन्निवेशान्तरव्यवच्छेदकत्वेनेति [134A] तस्या अङ्गता । कल्पितानेकभेदवृसीति । बालाद्यवस्था... [अ] यवावयविनोरव्यतिरेककल्पनया वा बहुभेदवृत्तिता । गुणशब्दोपबन्धेति । गुणशब्दस्य य उप समीपे बन्धः प्र[योगः ] यथा शौक्यमश्व इति । भावप्रत्ययान्तस्य शुक्लशब्दस्याश्वशब्देन सामानाधिकरण्यं नास्ति तद्वद् गुणशब्दोपबन्धस्य, तेन [शुक्लो गुणोऽ]श्व इति न सामानाधिकरण्यमित्यर्थः । १.४० अन्ये पूर्वापरीभूतेति । पूर्वावस्थामतिक्रान्त उत्तरां फलोत्पत्तिकालभाविनीम [वस्थामा ]श्रितः क्रमरूपः साध्य उच्यते । क्षणसमुदायात्मका एकफलोत्पादकतया ह्यधिश्रयणाद् यवादयः क्षणा एकत्वे [न यव] शब्दवाच्या: । अतस्तस्य पाका - देरै क्यादपूर्वापरापूर्वापराः सम्प[न्ना ] इति [ 134B] ....' 'ग्रामं गच्छ ' इत्यादौ हि आज्ञया प्रेरितस्तत्सम्पत्त्यर्थमेव प्रवर्तमानो दृश्यतेऽतः सैव कार्यम् । ननु धात्वर्थं ग्रामगमनमसौ साधयितुं प्रवर्तते तन्नेत्याह- भावार्थमात्र कार्यत्वपक्षस्यातिदौर्बल्यात् । वक्ष्यमाणनीत्येति भावः । तत्सिद्धये हि पुरुषः प्रवर्तत इति । यदि हि असौ तत्सिद्धये न प्रवर्तेस कार्यमेव तन्न स्यात्, अतः 'आत्मनः कार्यतासिद्धये प्रवर्तयति' इत्यर्थात् प्रेरकत्वम्, कार्यत्वेन नियोगप्रतीतेः ; नियोगो ह्याज्ञारूपः कार्यत्वेनैव प्रतीयते शब्दात् । १ १३५ - १३६ पत्रद्वयं नोपलब्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy