SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३८ भट्टश्रीचक्रधरप्रणीतः [का०पृ०२९६, वि०पृ० ३२४ सामानाधिकरण्य[मनु]भवति । ते च तद्भेदा ये सामान्यशब्देन आक्षिप्यन्ते नान्ये सम्भवन्तोऽपि, तद्यथा- शुक्लशब्देन मधुरादेः । द्रव्ये मधुरादीनामनाक्षेपोऽनाक्षेपाच्च न तद्भेदत्वमतद्भेदत्वाच्च न तद्वाचिभिः सामानाधिकरण्यम् ] । [सच्छब्देन] जातिः ख्याप्यते सत्तालक्षणा । तत्र प्रवृत्तस्तद्वत्युपचयतेऽसौ । न च यः शब्दो यत्रोपचर्यते [स तस्य वाचकः] । [123 B] [न हि यो यत्रोपचारतो वर्तते स तमर्थं परमार्थतो ब्रवीति यथा सिंहशब्दो माणवकम् । एवमुपचर्यमाणस्यास्वातन्त्र्यमप्रधानत्वमिति अस्वतन्त्रत्वादिति पदेन उपचारादित्यनेन पदेन च । एतद्धि "तद्वतो नास्वतन्त्रत्वात्" इति दि(चि)रन्तनबौद्धग्रन्थगतमिति । अथ सत्तोपरक्ततत्स्वरूपे द्रव्ये सारूप्याच्छब्दस्य वृत्तिर्भविष्यतीति चेदाह-"असंभवात्" इति तत्सारूप्यस्यासंभवा. दित्यर्थः । न हि सत्तया सारूप्यं द्रव्यस्य-नीलेन यथा स्फटिकस्य-नीरूपत्वात् तस्याः । अथ यथा आकृतौ प्रत्ययसंक्रान्त्या 'गवयोऽयम्' इत्यादौ तथा घटादौ सत्प्रत्ययसंक्रान्त्या 'सन् घटः' इति भविष्यति । तदपि न । कुतः ? असंभवात् । कथमसंभवः ! द्रव्यस्य सत्ताऽऽकृत्यसंभवात् द्रव्ये सत्प्रत्ययसंक्रान्त्यभावः । ननूपचारादन्यविषयः प्रत्ययोऽन्यत्र संक्रामन् दृश्यत इत्याह-"वृत्तिरूपस्य भिन्नत्वा[द्" भेदेनोपलभ्य-] [133 A]मानत्वादिति । उपचारे हि 'योऽहं स एवायम्,' 'राजा मृत्यः' इत्युपचारा[] लोकस्य साजा]दो प्रवृत्ति[:] प्रत्ययभेदेनोपलभ्यत इति तदिह भाक्त[:] वृत्तिरूपस्य भिन्नत्वाद् राज्ञि भृत्योपचारवदिति । सामान्यं वदन् न तदाश्रयमाह....इति अस्वतन्त्रत्वादिदूषणानि', तेषां परिहारः । १ तेन यथा जाती प्राधान्येन वाच्यायां पारतन्त्र्येण तद्वतोऽभिधानात् तद्गतमेदानाक्षेपात् तेन सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्त:...तत्त्वसं०पं०पू०३४० । अपोहवति वस्तुनि वाच्यत्वेनाङ्गीक्रियमाणेऽनीलादिभेदानामुत्पलादीनां नीलादिशब्दाप्तिराक्षेपो दुर्लभः, किं कारणम् ? परतन्त्रत्वाद् नोलादिशब्दस्य, स हि . व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह, न साक्षात् । ततश्च साक्षादनभिधानात् तद्गतमेदाक्षेपो नास्ति, यथा मधुरशब्देन शुक्लादेः । यद्यपि वस्तुस्थित्या शुक्लादीनाम् अमधुरादिभेदत्वमस्ति तथापि शब्दस्य साक्षादभिहितार्थगत. स्येव मेदस्याक्षेपसामर्थ्य न तु पारतन्त्र्येणाभिहितार्थगतस्येति भावः । ततश्च नीलादिशब्देन तद्गतमेदानाक्षेपाद् उत्पलादीनामतभेदत्वं स्यात्, भतभेदत्वे च सामानाधिकरण्यं न प्राप्नोति । तेन जातिमन्मात्रपक्षे यो दोष उक्तो भवता 'तद्वतो न वाचकः शब्दोऽ. स्वतन्त्रत्वात्' इति स व्यावृत्तिमन्मात्रपक्षेऽपि तुल्य इति दर्शितं भवति । तथाहि-आतिमन्मात्र शब्दार्थे-सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह न साक्षादिति तद्गतघटादिमेदानाक्षेपादत भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः, स व्यावृत्तिमन्मात्रपक्षेऽपि समानः, तत्रापि हि सच्छब्दो व्यावृत्त्युपसर्जनं द्रव्यमाह न साक्षादिति, तद्गतघटादिमेदानाक्षेपादतदुभेदत्वे सामानाधिकरण्या. भावप्रसङ्ग उक्तः......तत्त्वसं०पं०पृ०३१० । जातिमत्पक्षे यो दोष भाचार्यदिग्नागेनोक्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy