SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ को०पृ०२६५, वि०पृ०२९०] न्यायमञ्जरोग्रन्थिभङ्गः १२५ . गुणविधिपक्षस्पृश इति । फलं प्रति विधेयत्वाद् धात्वर्थस्य, नामविधिं प्रति चोद्देश्यत्वात् । संज्ञासंज्ञिसम्बन्धमिति । कार्यपरत्वाद् वेदस्येति भावः । योगेन केनचिदित्यादिना नामधेयस्यानूद्यमानत्वं दर्शयति । योगेन पशूनामुद्भेदनेन फलभूतानां प्रकाशनेन यत् सिद्धमुद्भित्त्वं तदनेनानूद्यते न विधीयत इत्यर्थः । येनानेन यागविशेषेण पशुकामो यजते भवत्येवासावुद्भित् पशूनामुद्भेदनादित्यर्थः' । गुणफलोपबन्धेनार्थवदिति । तत्सम्बन्धित्वेन गुणफलयोर्विधानादित्यर्थः । आग्नेयोऽष्टाकपाल इति । अच्युत इत्युभाभ्यामपि दर्शपूर्णमासाभ्यां न च्यवत इति । अत्र हि अष्टकपालेषु यः संस्कृतः साऽष्टाकपाल आग्नेयो भवनि, तस्य पुरोडाशस्याऽऽग्नेयता विधीयते; न ह्यविधीयमान आग्नेयो भवति । स पुनरष्टाकपाल एवमाग्नेयो भवति यदानये संकल्प्य दीयते, संकल्पमन्तरेणाऽऽग्नेयत्वाभावत् । संकल्पितस्य या[117B]गेन विनाऽर्थवत्ता नास्तीत्येवमनेन प्रकारेण तद्धितान्तनिर्देशान्यथानुपपत्त्या यागो विहितः। स चैवं द्रव्यदेवतासम्बन्धात्मको यागो विधीयमानो न शक्यः सम्बन्धिनावग्निपुरोडाशावन्तरेण विधातुमिति सगुणस्य कर्मणो यागस्य विधानम् । तथा च जैमिनिः-"तद्गुणास्तु विधीयेर. न्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः" इति [मी. सू.१.४.६.९.] । यथा वा एतस्यैवेति । "समेषु कर्मयुक्तं स्यात्" [मी०सू०२.२.१२.२७] इत्यत्रैतच्चिन्तितम् । त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेतेति । ततः पुनरुक्तम् । एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति । तत्र प्रथमं त्रिवृत्स्तोमकोऽग्निष्टुन्नामको यागः स चाग्निष्टोमोऽग्निष्टोम संस्थस्तस्य वायव्या या ऋचः तास्वेकविंशमेकविंशत्या स्तोत्रीयाभिऋग्भिनिर्वयोऽग्निष्टोमाख्यः स्तोत्रविशेषः [118A] । पश्चादेतस्यैवेत्याह । अत्र विशेषः रेवत्याख्यासु ऋक्षु वारवन्तीयाख्यस्याग्निष्टोमसाम्नो विधानम् । तत्र संदेहः । किं पूर्वप्रकृतस्याग्निस्तुतोऽग्निष्टोमस्य यो गुणो वारवन्तीयाख्यस्तस्मिन् पशवः फलम् अथवा एतेन यजेतेति कर्मान्तरविधानमिति । तत्र पशुकामो यदि यजेतानेन यदेवं कृत्वेति सम्बन्धादेतस्यैवेत्यनेन तस्यैव परामर्शात् तस्यैव गुणविधिरिति पूर्वपक्षिते “समेषु कर्मयुक्तं स्यात्''इति मी०सू० २.२.१२.२७] सिद्धान्तः । समेष्वेवंजातीयेषु रेवत्यादिवाक्येषु कर्मयुक्तं फलमपूर्वात् कर्मणः फलं न पूर्वस्यैव गुणविधिरित्यर्थः । कथम् ! गुणविधिपक्ष वाक्यभेदात् तस्य तावत् प्रकृतस्य रेवत्यो न सन्ति ता विधेयास्तासु चाग्निष्टोमसाम नास्ति पूर्वसिद्ध १ शाबरभा० १.४.१.२ । २ तैः सं. २.६. ३. । ३ ताण्डयवा० १७.६.१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy