SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ૨૨૨ भट्टश्रीचक्रधरप्रणीतः का०पृ०२६२, वि०पृ०२८७ त्रविधानात्' इति । 'स्वाध्यायोऽध्येतव्यः' तै०आ०२.१५.१] पाठेनाऽऽमुखीकर्तव्य इति हि तस्यार्थः । दृष्टो हि तस्यार्थ : कर्मावबोधनमिति । अक्षरग्रहणमात्रस्य निष्फलत्वादवश्यं विधिना प्रवर्तकशक्त्यविधाताय फलान्तरं कल्प्यम् । यावच्च कल्प्यते तावद् दृष्टमेवार्थावबोधनं लध्वित्यादि प्रथमाह्निकारम्भ एव प्रप[113A]श्चितमिति । ननु 'यद् ऋचोऽधीते घृतकुल्या भवन्ति, यद् यजूंष्यधीते मधुकुल्या भवन्ति' इति [ ] ऋगायध्ययनात् फलान्तरश्रवणात् कथमर्थावबोध एव फलमिति । अतिप्रसिद्धोऽयमर्थः, प्रथमसूत्र एव मीमांसायामस्य विचारणादत एवाह-एतच्च शास्त्रान्तर इति । 'अन्यार्थत्वे स्वाध्यायस्यावगते तेषामर्थवादतयैव समन्वयः' इत्याद्युत्तरमत्र । तद्विधायकम् उरुप्रथा इति पुरोडाशं प्रथयतीति । प्रतिपन्नार्थविषयं तु तदित्यनेन निरालम्बनत्वकृतमनर्थकत्वं परिहरति, अर्थवादार्थम् वेत्यनेन त्वनुवादमात्रत्वम् । कचित्तु गुणार्थविधानमिति । सन्न्यादानसमर्था मन्त्रा 'देवस्य त्वा' [तै०सं०५.१.१] इत्यादयः, तान् पठित्वाऽऽह 'तां चतुर्भिरादत्ते' इति[ते०सं०५.१.१] । तामित्यभिं; वेद्यर्थ मृत् वन्यते यया सा अभ्रिः । तत्र तदादानप्रकाशनसामर्थ्यादेव मन्त्रेण तदादाने लब्धे पुनस्तां चतुर्भिरादत्त इति वचनं निष्फलमाशङ्क्य समुच्चितैश्चतुर्भिरादानं कार्य नैकैके[113B]नेति समुच्चयलक्षणगुणस्य विशेषस्य विधानार्थम् । यद्यपि समुच्चयो न वाच्यः तथाप्यसमुच्चितैरेकैकश आदानं क्रियमाणं कथं चतुर्भिरादानं कृतं स्यादिति फलतः समुच्चयलाभः । एवमग्नी[दग्नी]न विहरेति । अत्र यद्यपि तस्य ज्ञानं स्थित मयैतत्कर्तव्यमिति तथापि प्रयोगकालेऽवश्यं स्मर्तव्यं तत्, उपायान्तरेण स्मरणप्रतिषेधार्थ मन्त्रेण स्मृतं कर्तव्यमिति मन्त्रस्योपयोगः । अन्यथा करणे चास्येति । बहुभ्योऽध्येतृभ्यो निवारणम् , एवं मा पठीरिति। सवनानि प्रातःसवन-माध्यंदिनसवन-तृतीयसवनानि । छन्दांसि गायत्र्यादीनि । कल्पो यज्ञसूत्रम् । कामान् स्वर्गादीन् । स एवंभूतो महो देवो महान् देवो यज्ञो मान् मनुष्यान् आविवेश, तेषामेव यज्ञेऽधिकारात्। चत्वारि शृङ्गास्त्रिधा बद्ध इत्यनयोरथर्ववेदभक्या स्वव्याख्यानं कृतवान् ग्रन्थकारः, भाष्यकारस्तु चत्वारो होत्राः शङ्गाणीवास्येति, त्रिधा बद्धस्त्रिभिदैर्बद्ध इति च व्याचचः । होत्रा इति ऋत्वि- १ तुलना-अर्थवादो वा । मी०सू० १.२.४.३५ । २ तुलना--गुणार्थेन पुनः श्रुतिः । मी सू० १.२.४.३३ । ३ शतपथब्रा० ४.२.४.११; आप०ौ•सू० १२.१७.२० । १ प्रलो० वा० चोदनासूत्र १५० । ५ ऋग्वेद ४. ५८. ३। ६ शाबरभा० १.२.४.३८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy