SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ का०पृ०२४१, वि०पृ०२६४] न्यायमञ्जरीग्रन्थिभङ्गः [99A]म्र्येण जाग्रज्ज्ञानस्यापि मिथ्यात्वाशङ्का स्यात् । अथ तत्र “दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" [श्लो०वा.चोदनासू०६.] इत्याशङ्कानिरासः, ताँवं मन्वादिस्मृतावपि भविष्यति । न, नियमासिद्धेः । यदि हि वहन्यभावे क्वचि. दपि धूमो दृश्येत तदा किं शक्येत वक्तुं यत्रैव धूमो दृष्टस्तत्रैव वह्नि विना भवत्वन्यत्र पुनर्वहनावेव धूम इति; एवं यत्र स्मरणं वेदमूलत्वं विनोपलब्धं सर्ववेष्टनादौ तत्र वेदमूलत्वं व्यभिचरतु नाम, अन्यत्र तु वेदमूलत्वाव्यभिचारि स्मरणमिति । यतो नियमस्याविनाभावस्य निश्चयोऽनुमानस्य मूलम् , तस्य चासिद्धिः । विपर्ययसम्भाबनायामपि, किं पुनर्विपर्ययदर्शनेऽपि ? विपर्ययश्च दर्शितः । यत् पुनः "दोषज्ञाने स्वनुत्पन्ने" इति तत् प्रत्यक्षाभिप्रायेण, यतो न प्रत्यक्षं लिङ्गवनियमनिश्चयापेक्षं स्वविषयं परिच्छिनत्ति । कि तहिँ ? बोधस्वभावत्वादेव । अतस्तत्र सत्यामप्याशङ्कायां न नियमासिद्धिः । निश्चितनियमस्य गृहीताविनाभावस्य तु लिङ्गस्य लिङ्गत्वात् कथं विपर्ययदर्शनेऽपि लिङ्गत्वम् ? अथार्थापत्तितो मन्वादिस्मृतीनां वेदमूलत्वनिश्चयः [99B] | स्मृतिदाढर्चमन्थथाऽनुपपद्यमानं वेदमूलत्वं कल्पयति इति' । तन्न, सर्ववेष्टनादावन्यथाप्युपपत्तेईष्टत्वाद् भट्टपक्षे, प्राभाकरैरेवंविधाऽर्थापत्त्यनभ्युपगमाच्च । 'ननु कल्पयित्वा मन्वादीनां प्रतारकत्वमन्यथाऽप्युपपत्तेरिति वक्तुं न शक्यते, तादृशां च महात्मनां दोषवत्त्वकल्पनायां बहुदुष्टकल्पना प्राप्नोति' । न । संसारिणां रागादिवहुलत्वेन दृष्टत्वात् पुरुषविशेषानभ्युपगमाच्च न काचित् कल्पना । तदुक्तम्-'सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः' इति । [श्लो०वा.चोदनासू०१४४] । अथैवं वेदमूलत्वानभ्युपगमेऽष्टकादिवाक्येभ्योऽवगतेमिथ्यात्वं प्राप्नोति, कारणाभावात् । तन्न कारणाभावनिश्चये भवतः प्रमाणाभावात् , अनिश्चिते च कारणाभावेऽष्टकादिवाक्येभ्यः प्रतिपत्तेरुद्भवन्त्या अप्रतिपत्तित्वासिद्धिः । यदि प्रतिपत्तेरप्रतिपत्तित्वं नेष्यते भवता तदस्याः प्रतिपत्तेर्भवतः किं जनकं प्रमाणमिति चेद् , वाक्यमेव । मम हि प्रत्यक्षपक्षपातिनो नियमनिश्चयानपेक्षाद् वाक्यादवगतिरुत्पद्यते । न च परेण मूलकारणाभावो निश्चेतुं शक्यते, संभवाद् वे[100A]दसंयोगस्य त्रैवर्णिकानाम् । त्रैवणिका हि मन्वादयः, तेषां च त्रैवणिकत्वादेव वेदसंयोगः सम्भाव्यते । सम्भवमात्रेण चाभावनिश्चयो निरसितुं शक्यते । उक्तं च-'सम्भवमात्रनिरसनीयश्चाभावो प्रमाणं स्मृतिः। विज्ञानं हि तत् किमित्यन्यथा भविष्यति पूर्वविज्ञानमस्य मास्ति, कारणाभावदिति चेत्। अस्या एव स्मृतेदृ ढिम्नः कारणमनुमास्यामहे । तत्तु नानुभवनम् , अनुपपत्त्या । म हि मनुष्या इहैव जन्मन्येवंजातीयकमर्थमनुभवितुं शक्नुवन्ति । जन्मान्तरानुभूतं च न स्मयते। प्रन्धस्त्वनुमःयेत, कर्तृसामान्यात् स्मृतिवैदिकपदार्थयोः । तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकामाम् । शाबरभा० १.३.१.२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy