SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ का०पृ०२३६, वि०पृ०२५८ ] न्यायमञ्जरीप्रन्थिभङ्गः निर्वपति; सामानि वै ब्रह्मणोऽपानः, साम्नामेवैतज्जुष्टं निर्वपति; अथर्वाणो वै ब्रह्मणः समानः, अथर्वणामेवैतज्जुष्टं निर्वपति" इति [काठकशताध्ययन] । ततश्चतुःशरावो भवतीत्याह । यतश्च मूलं ब्रह्मणो वेदाः, वेदानां मूलम् ऋत्विजोऽतो यद् ऋत्विग्भ्यो दत्तं तद्वेदेभ्यो दत्तं भवतीत्यत आह-'चतुःशरावो भवति' इति । चत्वारो हीमे वेदास्तानेव भागिनः करोतीति । स्तुतिरियं, तस्य प्रतिवेदमेकैकशरावापेक्षया यश्चतु:शराव उक्तः । चत्वारः शरावा वीहीणामत्र निरुप्यन्ते-व्रीहिपूर्णाच्छकटादुद्धियन्ते, जुष्टं सेवितम् , तदुदेशेन निरुप्यते । पृष्ठयस्य चतुर्थेऽहनीति । द्वादशाहेन प्रजाकामं याजयेदिति । द्वादशाहमध्ये पृष्ठ्यः षडह आम्नातः, पृष्ठयः पृष्ठयाख्यस्तोत्रविशेषो[92B]पलक्षितः । तथा च द्वादशाहेऽहः क्लप्तिः, प्रायणीयोऽतिरात्रः, पृष्ठ्यः षडहः, त्रयश्छन्दोमा(गा !), अविवाक्यमहरुदयनीयोऽतिरात्र इति । आर्भवे पवमान इति । तृतीयसवनभाविनि पवमानाख्ये स्तोत्रविशेषे । चतुर्णिधनं चत्वारि निधनानि गानभक्तिविशेषा यत्र । चतूरात्रस्य षडहसम्बन्धिनोऽनुष्ठितस्य । धृत्य प्रतिष्ठायै । चतुष्पदानुष्टुभा चतुष्पादानुष्टुप्छन्दोऽत्र प्रयुज्यते । यदत्र कर्मण्याथर्वणं भवति तद् भैषज्यमेव । यज्ञे तन्निर्वहणमेव करोति यतो भेषजं वा । भाथर्वणानीति । यागभैषजान्येतानि यदाथर्वणानि कर्माणीत्यर्थः । ननु "नर्ते भृावङ्गिरोविद्भयः सोमः पातव्यः" [गोपथब्रा०: १. १]इत्यस्याथर्ववेदविदं ब्रह्माणं विना न सोमः पातव्य इत्यर्थों व्याख्यातो, भृग्वगिरोरूपाणां मन्त्राणामथर्ववेद एव पाठादिति । तच्चायुक्तम्, ऋग्वेदे यजुर्वेदे च भृग्वगिरा नाम कश्चिद् ऋषिस्तेन दृष्टानां मन्त्राणां दर्शनादिति । "नैतदेवम् , 'ऋग-यजुः-सामान्युपक्रान्ततेजांस्यासंस्तत्र महर्षयः परिवेदयांचक्रः'' इत्यारभ्य नर्ते[93A] भृग्वङ्गिरोविद्भयः सोमः पातव्यः' इत्यनेनाभिधानात् ; गोबलीवर्दन्यायेन भृग्वशिरोमन्त्रा अथर्वमन्त्रेष्वेव वर्तन्ते” इत्याक्षेपप्रतिसमाधाने वक्तव्ये सतीत्थं किमिति नोक्तम् । तथा “यदेतत् त्रय्यै विद्यायै शुक्रम्" [शतपथब्रा० ११.४.१४] इत्यस्य यथाश्रुतचतुर्थ्यन्तस्य व्याख्यानान्तरमपि कुर्वन्ति । शुक्रं सारभूतोऽयमथर्ववेदो ब्रह्मवेदस्तेन ब्रह्मत्वं कुर्यात् । किमर्थ(थ) ? 'त्रय्यै त्रयीगतभ्रेषनिबर्हणाथ(थ)म्" इत्याद्यन्यदपि बहुवक्तव्यमत्रास्ति, तत्कथं ग्रन्थकृता नोक्तमित्याशङ्क्याह-एतच्च शास्त्रान्तरे विस्तरेणेति । १-७ ताण्डवाः १२.९. ८-१० । ८-९ गोपथब्रा० पूर्वभा० प्र १ (पृ. ११-१५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy