SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थम् आह्निकम् ॥ जटाजूटभरस्यन्दद्गङ्गाम्बुघनदुर्दिने । उल्लसच्चन्द्रकं वन्दे नीलकण्ठस्य ताण्डवम् || [80A] | ॥ ॐ नमः शिवाय ॥ प्रकरणचिन्ता हेतोरिति । यत एव प्रकरणे पक्षे चिन्ता संशयः । अविगीता अविप्रतिपत्त्या स्थिता | ननु सृष्टिकाले कर्तृदर्शनं स्मृतेर्मूलं भविष्यतीत्याह -- न च मूल इति प्रथमत इत्यर्थः । तस्मात् पौर्वापर्य पर्यालोचनेति । विधायकवाक्यानङ्गत्वेन केवलानां मन्त्रार्थवादानां विश्वतश्चक्षुरित्यादीनां अदर्शनाद् 'रौद्रं चरुं निर्वपेत्' इत्यादिविधिवाक्यैकवाक्यतया व्यवस्थितानपि तान् पृथग् गृहीत्वा भ्राम्यन्ति । यथा 'घृतघटीमानय, यावद् आपणाद् घृतं गृह्येत' इत्येतद्वाक्यैकवाक्यतया 'घृतघटीमानय' इति स्थितं रिक्तघृतघटीसंप्रत्यायकं पृथक् क्रियमाणं पूर्णघृतघटीभ्रमं जनयति । नामाख्यातेति । नाम्नामभिनवत्वं सूचयति कृतणत्वस्याग्निशब्दस्य कचित् प्रयोगः । आख्यातस्याभिनवत्वं 'होता यजतु' इत्यत्रार्थे 'होता यक्षत्' इति प्रयोगे । उपसर्गस्य 'सं ते वायुर्वातेन गच्छताम्' [ मै० सं० १. २.१५ ] इत्यादौ व्यवहितस्य प्रयोगः । स्तुतिः' प्रशंसा यथा - 'सर्वजिता वै देवाः समयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति' इत्यादि । अनिष्टफलवादो निन्दा । स एष वाव प्रथमो [ यज्ञो] यज्ञानां यज्ज्योतिष्टोमो य एते [ 81B] नानिष्ट्वाऽन्येन यजते सत्यमेवैतज्जीर्यते वा प्रमीयते वा' इत्यादि । अन्यकर्तृकस्य व्याहृतस्य विधैर्वादः परकृतिः । "हुत्वा वपामेवाग्रेऽभिघारयन्ति अथ पृषदाज्यं तदु ह कठचरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति [ अग्नेः ] प्राणा वै पृषदाज्यमिति बदन्तः" इत्यादि । ऐतिह्यसमाचरितो विधि ः पुराकल्पः । " तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे " इत्यादि । न्यायभाष्योक्तानि स्तुत्यायुदाहरणानि । विशिष्टनामधेयकर्तृसम्बन्धनिर्वर्त्यकर्मप्रतिपादकसामान्यकर्तृमात्रनिर्वर्त्यकर्मप्रतिपादकयोरर्थद्वारेण वाक्ययोस्तु मीमांसकाः परकृतिपुराकल्पतामाहुः । आदिग्रहणमनुवादादिपरिग्रहार्थम् । शाखान्तरोक्तिसापेक्षेति । तुलना विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था स्तूयमानं श्रधीतेति । प्रवर्तिका च फलश्रवणात् प्रवर्तते "सर्वजिता वै देवाः सर्वमयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाऽऽप्नोति सर्व जयति" इत्येवमादि । न्या० भा० २.१.६४ । २ तुलना -अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेदिति । स एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽन्येन यजते गर्ते पतत्ययमेवैतज्ञ्जीर्यते वा प्रमीयते बा" इत्येवमादि । न्या० भा० २.१.६४ । ३ न्या०भा० २.१.६४ १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy