________________
भट्टश्रीचक्रधरप्रणीतः [का पृ०१८७,वि०पृ०२०३ त[72A]स्मादधवदेवेति'। समस्तक्षयजन्मभ्यां समस्तक्षयजन्मनी आश्रित्य । अतीतः कालः धर्मी समस्तक्षयजन्मयुक्तो न भवति, कालत्वात् , अद्यतनकालवदिति दृष्टान्तः ।
न प्रयोजनानुवति प्रमाणमिति । प्रमाणात् तथाविधं तदैश्वर्यमवगम्यते, यदि तन्निष्प्रयोजनं तत्प्रमाणं किं करोति । न हि लोष्ठदर्शनस्य निष्प्रयोजनत्वात् सुवर्णदर्शनं तदिति कल्प्यते ।
नित्यमबुद्धमुदिताय । नित्यो यः प्रबोधो ज्ञानं, नित्यश्च यो मोदः सुखं तद्युतो यः ।।
सादृश्याद् दध्यत्रेति इ-कारवद् य-कारस्यापि तालव्यत्वात् । स्मृतेाकरणलक्षणाया "इको यणचि"[पाणिनि ६. १. ७७] इत्यादिकायाः । प्रयोगाभिप्रायश्चेति । 'शब्दं कुरु' 'शब्दप्रयोगं कुरु' इति, अतो न 'शब्दमुत्पादय' इति; यथा 'गोमयान् कुरु' संस्कारार्थो न करोत्यर्थो न तूत्पादयेति । सिद्ध हि शब्देऽर्थे इति । सिद्धे नित्य इत्यर्थः । तदुक्तम् -'सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते' इति [पाणिनिवा० १. १. १] । तहि यत्सहशमसौ प्रयुक्त इति । यतः येनार्थः प्रतिपन्नः सोऽपि साक्षादर्थवान् न भवति सम्बन्धाभावात् तेनार्थनाभिनवोत्पन्नत्वेन तस्याप्यर्थ[72B] वत्सादृश्येन गमकः ।
मूलसादृश्याविनाशादिति । यथाहि-पितृसदृशः पुत्रस्तत्सदृशः तत्पुत्रो मूलपितुः सादृश्याद् दूरीभवन् दृश्यते यावद् अन्येऽपि तत्पुत्रतत्पुत्रास्तत्सादृश्यं मनागपि न स्पृशन्तीति ।
१ श्लोवा० सम्बन्धाक्षेपपरिहार ११३। २ अपि च दध्यत्रेत्यत्रेकारः प्रकृतिर्यकारो विकृत्तिरित्यपदिशन्ति । यद्विक्रियते तदनित्यम् । इकारसाहश्यं च यकारस्योपलभ्यते तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते। शाबरभा०१.१.६.१० । ३ यदपरं कारणमुक्त शब्दं कुरु मा कार्षीरिति व्यवहर्तारः प्रयुञ्जते । यद्यसंशयं नित्यः शब्दः, शब्दप्रयोग कुर्विति भविष्यति । यथा गोमयान् कुर्विति संवाहे । शाबरभा० १.१.६.१४ । ४ अर्थवत्सादृश्यादर्थावगम इति चेत् । न कश्चिदर्थवान् सर्वेषां नवत्वात् । शाबरभा० १.१.६.१८ । अर्थवान् कतरः शब्दः श्रोतुर्वकत्रा च कथ्यताम् ॥ यदा पूर्वश्रुतं शब्दं नाऽसौ शक्नोति भाषितुम् । न तावदर्थवन्तं स ब्रवीति सदृश वदेत् ॥ नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते । अर्थवद्ग्रहणाभावान्न चासावर्थवान् स्वयम् ॥ बक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते । एवं च सर्ववतणां न शब्दः कश्चिदर्थवान् ॥ प्रलो० वा० शन्दनित्यता० २६०-२६३ । ५ अथ तत्कालजैः पुंभिस्तस्मिन् शब्देऽवधारिते । प्रवृत्तेरनुमीयेत तत्सादृश्यपरम्परा ॥२६५॥ तत्र सम्बन्धमार्गेण पूर्वोक्तेन प्रसज्यते । स्मार्य तन्मलसादृश्यं तदधीनाऽर्थनिश्चयात् ।।२६६॥ वस्तुन्युत्पत्तिभिन्ने च दूरादारभ्य कल्पितम्। स्तोकस्तोकविशेषेण साहश्यं विप्रकृष्यते ॥२६७ । प्रलो०वा० शब्दनित्यताधि० । किञ्च, स्वभावविलक्षणेषु वस्तुषु सत्यामपि सादृश्यपरम्परायां स्तोकस्तोकभेदेनैव दूरस्थस्य मूलसादृश्यमत्यन्तमेव नश्येत् विशेषतस्तु शब्दे स्तोकविशेषादेवाऽर्थाऽन्यत्वं भवति, स्वरभेदादेव बहुव्रीहितत्पुरुषार्थ मेदात्, कि पुनर्व्यम्जनमात्राक्रमादिभेदादित्याह वस्तुनीति सार्धेन । न्यायरत्नाकर० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org