SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ३४ ॥ यन्निर्वर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्बधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ ३५ ॥ परजनमनःक्रीडाक्रीडावनं वधभावना भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ३६ ॥ अथ शीलप्रक्रमः । दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक - चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ३७ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं स्वर्निर्वाण सुखानि संनिदधते ये शीलमाबिभ्रते ॥ ३८ ॥ हरति कुलकलङ्क लुम्पते पापप सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोंपसर्ग रचयति शुचि शीलं खर्गमोक्षौ सलीलम् ॥ ३९ ॥ ४१ १. 'क्लिष्टाशयोद्दीपनम् ' ख. २. 'कामार्तस्त्यजति प्रभोदयभिदाशस्त्रीं परस्त्रीं न यः ' इति क· पुस्तके चतुर्थः पादः. ३. गच्छति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy