SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ एकीभावस्तोत्रम् | भक्त्या नते मयि महेश दयां विधाय दुःखाडुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निः संख्यसारशरणं शरणं शरण्यमासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ ४० ॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाहृद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्वद्विम्ब निर्मलमुखाम्बुजबद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ॥ जननयनकुमुदचन्द्र प्रभाखराः खर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ ( युग्मम् ) इति श्री सिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥ श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् | एकीभावं गत इव मया यः खयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । Jain Education International १७ १. बिम्बं प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतत्प्रणीतमेकीभावस्तोत्रं दिगम्बरा एवं पठन्ति अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचूरिस्त्रीणि मूल पुस्तकानि चास्माभिर्जयपुर एव समधिगतानि. For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy